________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shrih
१९२६
चरक-संहिता। (खुडीकागर्भावक्रान्तिधारीरम् __न खल्वपि परलोकादेत्य सत्त्वं गर्भमवक्रामति। यदि हि एनमवक्रामेन्नास्य किञ्चिदेव पौर्वदेहिक स्यादविदितमश्रुतमदृष्टं वा। स च तच्च किश्चिदपि न स्मरति तस्मादेवैतद् ब्रूमहे। अमातृजश्चायं गर्भोऽपितृजश्चानात्मजश्चासात्म्यजश्चारसजश्च न चास्ति सत्त्वमौपपादुकमितिहोवाच भरद्वाजः॥६॥
नेति भगवानात्रेयः। सर्वेभ्य एभ्यो भावेभ्यः समुदितेभ्योऽभिनिवर्त्तते गर्भः। मातृजश्चायं गर्भः, न हि मातुर्विना गोप
गङ्गाधरः-अथास्ति च सत्त्वमौपपादुकमिति यदुक्तं तदप्ययुक्तम् । कथमित्यत आह-न खल्वपीत्यादि। न खलु सत्त्वसंशकं परलोकादेत्य गर्भमवक्रामति । कस्मादित्यत आह-यदि हीत्यादि। हि यस्माद् यदि सत्त्वमेनं गभमवक्रामेत्, तदास्य पुरुषस्य पौर्वदेहिक किश्चिदविदितमश्रुतमदृष्टं वा न स्यात् । किन्तु स किञ्चिदपि न स्मरति । तस्मादित्यादि निगमनम् ॥९॥
गङ्गाधरः-इति यद्भरद्वाज उवाच तत्रोत्तरमाह-नेति भगवानात्रेय इति । कस्माद्भरद्वाजवचनं न ? तदाह-सर्वेभ्य इत्यादि। प्राक् प्रतिज्ञातमेषां भावानां समुदायाद गौं जायते इति । तस्मादेभ्यो मात्रादिभ्यः सर्वेभ्यः समुदितभ्यो भावेभ्यो गोऽभिनिवर्तते, न त्वेकैकस्मात्। तस्मान्माजश्चायं सेवन्ते । तेन सर्व एव सापत्याः स्युरिति भावः। अथ रसजो गर्भ इत्यस्य 'श्रेष्ठरसः' इत्यर्थो वय॑ते, तत्रापि दूषणान्तरमाह-श्रेष्ठमित्यादि ॥१८॥
चक्रपाणिः-"अस्ति च सत्त्वमीपपादुकम्" इति यदुक्तम्, तद् दूषयति-न खल्वपीत्यादि। पौर्वदेहिकमिति पूर्वदेहानुभूतम्। अविदितमदृष्टं वेति इह जन्मनि पूर्वदेहानुभूत नाविदितम् अहष्टं वा स्यात् । विदितं प्रत्यक्षव्यतिरिक्तप्रमाणोपलब्धम् । दृष्टं प्रत्यक्षोपलब्धम, एतद्विपर्ययात् अविदितमदृष्टश्च विज्ञेयम्। न च किञ्चिदपि स्मरतीति न च पूर्वजन्मानुभूतं सरतीत्यर्थः। एवं मन्यते-यन्मनः पौर्वदेहिकमनुभवति, तच्चेह जन्मन्यप्यनुवर्तते, यथा यत् तेन जन्मान्तरानुमूतम्, तदिह जन्मन्यपि तथैव स्मरति। यथा-देवदत्तो बाल्यानुभूतं यौवने स्मरति, न चायं तथा स्मरति। तेन न पूर्वापरजन्मन्येकं सत्त्वमिति। तस्मादित्यादिना दूषणदूषितमत्यर्थ पुनर्निगमे दर्शयति ॥ ९॥
चक्रपाणिः-भरद्वाजानुमतम् आत्रेयवचसा दूषयति–नेतीत्यादि। समुदितेभ्य इति वचनात् प्रत्येकं मात्रादीनामितरकारणनिरपेक्षाणां ग कारणत्वं निषेधयति। तेन मात्रादिसान्निध्येऽपि
For Private and Personal Use Only