________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
.
३य अध्यायः] शारीरस्थानम् ।
१९२५ असात्म्यजश्चायं गर्भः। यदि हि सात्म्यजः स्यात् तर्हि सात्म्यसेविनामेवैकान्तेन व्यक्तं प्रजा स्यात्। असात्म्योपसेविनश्च निखिलेनानपत्याः स्युस्तच्चोभयमुभयत्रैव दृश्यते ॥७॥ . न रसजश्चायं गर्भः। यदि हि रसजः स्यान्न केचित् स्त्रीपुरुषेष्वनपत्याः स्युन हि कश्चिदस्त्येषां योरसान् नोपयुक्त। श्रेष्ठरसोपयोगिनां चेद्गर्भा जायन्ते इत्यभिप्रेतम्, इत्येवं सति आजौरभ्र-मार्गमायूररस-गोक्षीरदधिघृत-मधु-तैल-सैन्धवेक्षुरसमुद्गशालिभृतानामेकान्तेन प्रजा स्यात् । श्यामाकवरकोदालककोरदूषककन्दमूलभक्ष्याश्च निखिलेनानपत्याः स्युस्तच्चोभयमुभयत्रैव दृश्यते ॥८॥
गङ्गाधरः-सात्माश्चान्नादिकं गर्भ जनयतीति चेत्, तदपि न युक्तम्, कथमित्यत आह-असात्माजश्चायं गर्भ इति। कस्मानायं गर्भः सात्माज इत्यत आह-यदि हीत्यादि । तत्र व्यभिचारं दर्शयति। तचोभयमित्यादि । तच्चोभयमुभयत्र दृश्यते। सात्म्यसेविनोऽपि निरपत्याः केचित्, केचित् सापत्याः ; असात्म्यसेविनश्च केचित् सापत्याः, केचिन्निरपत्या दृश्यन्ते ; तस्मान सात्म्यजश्चायं गर्भ इति ॥७॥
गङ्गाधरः-रसजश्चायं गर्भ इति चेत्, तत्रोच्यते-न रसजश्चायं गर्भ इति । कथं न रसज इत्यत आह-यदि हीत्यादि। एषां मध्ये यो जनो रसान् नोपयुङ्क्ते तादृशः कोऽपि नास्ति, कथं तर्हि निरपत्याः स्युः ? सर्व एव सापत्या भवेयुरिति । तत्र रसशब्देन श्रेष्ठरसश्चे द्विवक्ष्यते तर्हि चाजरसादिभिः श्रेष्ठरसैः पुष्टा एकान्तेन सापत्याः स्युर्न निरपत्याः स्युः। दृश्यन्ते च केचित् सापत्याः केचित् निरपत्या इति। अश्रेष्ठरसश्यामाकादिभक्ष्याश्च निखिलेनानपत्या न दृश्यन्ते, दृश्यन्ते च केचित् सापत्याः केचिन्निरपत्या इति तदुभयमुभयत्र दृश्यते इति ॥८॥
चक्रपाणिः-तच्चोभयमिति सप्रजत्वमनपत्यत्वञ्च । उभयन्नेति सात्म्यसेविन्यसात्म्यसेविन्यपि। यो रसान् नोपयुक्ते इति रसश्चेत् गर्भकारणम्, तश्च सर्व एव स्त्रीपुरुषाः
For Private and Personal Use Only