________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२४
चरक-संहिता। (खुड्डीकाग वक्रान्तिशारीरम् न चात्मात्मानं जनयति। यदि ह्यात्मात्मानं जनयेत् जातो वा जनयेदात्मानमजातो वा जनयति, तच्चोभयथाप्ययुक्तम् । न हि जातो जनयति सत्त्वात्, न चैवाजातो जनयेत् सत्त्वात् , तस्मादेषोभयथाप्यनुपपत्तिस्तिष्ठतु। अथ तावदेतद् यद्ययमात्मानं शक्तो जनयितु स्यात् न त्वेनमिष्टास्वेव कथं योनिषु जनयेत् वशिनमप्रतिहतगतिं कामरूपिणं तेजोबलवर्णसत्त्वसंहननसमुदितमजरमरुजममरमेवंविधंह्यात्मात्मानमिच्छन्नित्यतो वा भूयः॥६॥ ___ गङ्गाधरः-तहि चात्मा गर्भ जनयेदित्यत आह-न चात्मा आत्मानं जनयतीति। कथमित्यत आह-यदीत्यादि । हि यस्मात् । आत्मा यद्यात्मानं जनयेत् तदायं प्रश्नः-आत्मा जातो वात्मानं जनयेदजातो वात्मानं जनयेदिति । तच्चोभयथानुपपन्न मिति दर्शयति-न हीत्यादि। हि यस्मादात्मा जात आत्मानं न जनयति, सत्त्वात् सद्भावादस्ति ह्य वात्मा नास्ति चात्मनो जन्मेति । तहि चाजातो जनयतीति चेत्, तदप्ययुक्तम्। कस्मात् ? न चैवाजातोजनयति सत्त्वात्। आत्मा सत्त्वादजातः कथं पुनः सन्तमेवात्मानं जनयेदिति ? सतो जन्मासम्भवादिति। तस्मादेषा योभयथानुपपत्तिः सा तिष्ठतु । अपरश्च तावदेतत् । किं ताव दित्यत आह-यद्यमित्यादि। अयमात्मा यद्यात्मानं जनयितु शक्तः स्यात् तदा त्वेनमात्मानं न कथमिष्टासु योनिषु जनयेत् । वशिनमित्येवमादिश्चात्मानमिच्छन्नतो भूयो रूपं वेच्छन् न कथमात्मानं जनयेदिति। दृश्यते चान्यथा। तस्मादात्मा गर्भ न जनयतीति ॥६॥
चक्रपाणिः-आत्मजत्वं गर्भस्य निषेधयति-न चात्मेत्यादि। आत्मानं न जनयतीत्यर्थः । सत्त्वादिति जन्यस्यात्मनो विद्यमानत्वात्, न च विद्यमानो जन्यते इत्यर्थः । असत्त्वादिति कारणभूतस्यात्मनोऽजातपक्षेऽसत्त्वान्न कारणत्त्वमुपपन्नमित्यर्थः। अत्रैव दूषणान्तरमाह-तिष्ठस्वित्यादि । योनिष्विति जातिषु ; अतो वा भूय इति यथोक्तगुणयुक्तादप्यधिकं शक्रादिपरमर्द्धितुल्यम् इत्यर्थः ॥६॥
* जनयत्यसत्त्वात् इति चक्रः।
For Private and Personal Use Only