________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः शारीरस्थानम् ।
१६२३ नेति भरद्वाजः। किं कारणम् ? न हि माता न पिता नात्मा न सात्मा, न त्वन्नपानभक्ष्यलेह्योपयोगा गर्भ जनयन्ति, न च परलोकादेत्य गर्भ सत्त्वसंज्ञकमवक्रामति ॥ ४॥ ___ यदि हि मातापितरौ गर्भ जनयेताम्, भूयस्यश्च स्त्रियः पुमांसश्च भूयांसः पुत्रकामाः; ते सर्वे पुत्रजन्माभिसन्धाय मैथुनमापद्यमानाः पुत्रानेव जनयेयुर्दुहितर्वा दुहितृकामाः। न च काश्चित् स्त्रियः केचिद्वा पुरुषा निरपत्याः स्युरपत्यकामाश्च परिदेवेरन् ॥ ५॥
गङ्गाधरः-भगवदात्रेयस्येमा प्रतिज्ञां श्रुला भरद्वाजः कुमारशिरा नेत्युवाच । गर्भो मात्रादिभ्यो जायत इत्येवं न। तत्र प्रश्नः-किं कारणमिति। तत्र कारणमाह--न हीत्यादि। हि यस्मान्माता न गर्भ जनयति न पिता नात्मा न सात्म्यं, नान्नपानभक्ष्यलेह्योपयोगाश्च गर्भ जनयन्ति, न च सत्त्वं परलोकादेत्य गर्भमवक्रामतीति ॥४॥
गङ्गाधरः-कस्मादेवमित्यत आह--यदि हीत्यादि। हि यस्मात् पुत्रकामा इत्यस्य स्त्रियः पुमांसश्चेत्युभयाभ्यामन्वयो यथालिङ्गं चकारेण ज्ञापितः। अपत्यकामाः परिदेवेरन् मथुनं गच्छेयुः स्त्रियः सर्वाः पुमांसश्च सर्वे न च काश्चित् स्त्रियः पुरुषा वा केचिन्निरपत्या न स्युरिति । दृश्यन्ते हि बहाः स्त्रियः पुमांसश्च बहवोऽपत्यकामा मैथनं गता निरपत्यास्तस्मान्न माता न पिता गर्भ जनयति ॥५॥
चक्रपाणिः-पूर्वपक्षोद्धारेण सिद्धान्तं ग्राहयितु मात्रादिकारणानामकारणत्वं भरद्वाजः प्रतिजानीते-नेतीति। यदि होत्यादिना, मात्रादीनामकारणत्वे हेतु ब्रूते ; किंवा अनेनैव मात्रादीनामकारणत्वं भरद्वाजेन प्रतिज्ञातम् ; 'तत् किं कारणम्' इति हेतुप्रश्नः। ततः 'न हि माता' इत्यादि हेतुकथनम् ; अस्य चायमर्थः-यतो मात्रादयो गर्भकारणत्वे न प्रत्यक्षा गृह्यन्ते, ततो न मात्रादयो गर्भकारणम् ; यदि हीत्यादिना तु उपपत्तिविरोधोऽपि मात्राद्यकारणत्वे नास्तीति दर्शयति ; तेन न पौनरुक्तयम्। मैथुनधो व्यवायः । पुत्रकामाः पुत्रानेव जनयेयुः, दुहितृकामा दुहितुर्वा जनयेयुरिति योजना । न तु काश्चित् स्त्रिय इत्यत्र मैथुनमापद्यमाना एव स्त्रियः पुरुषाश्च न परिदेवेरन वेति योजना। मातापित्रधीनत्वेन गर्भस्य यदैवेच्छन्त्यपत्यम्, तदैव मैथुनमापद्यमानाः सापत्याः स्युः । ततश्च सर्वापत्यत्वे न केचित् परिदेवेरनित्यर्थः ॥ ५॥
For Private and Personal Use Only