________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२२
चरक-संहिता। खुड्डीकागर्भावक्रान्तिशारीरम् माणः। ततः प्राप्तकालः सर्वे न्द्रियोपपन्नः परिपूर्णसर्वशरीरो वलवर्णसत्त्वसंहननसम्पदुपेतः सुखेन जायते समुदायादेषां भावानाम् ॥२॥
मातृजश्चायं गर्भः पितृजश्चात्मजश्च सात्म्यजश्च रसजश्वास्ति च सत्त्वसंज्ञमौपपादुकमितिहोवाच भगवानात्रेयः ॥३॥
कालसम्पन्नगुणानां मात्रया काले समयोगेनाभ्यवहारैविहाराणाश्च शयनासनादीनां समयोगेनाचरणैरुपचय॑माण आचय्यमाणः स गर्भः तत् प्रसिद्धकालं प्राप्तः सव्वेन्द्रियोपपन्नः परिपूर्णसर्वाङ्गावयवो बलवर्णसत्त्वसंहननसम्पदुपेतः सन् एषां मात्रादीनां भावानां समुदायात सुखेन जायते न खेकैकस्मादंषां भावानामिति प्रतिज्ञा । असम्यगुपचारैस्तूपचय्येमाणोऽप्राप्तकालोऽसङ्केन्द्रियोपपन्नोऽपरिपूर्णसर्वाङ्गावययो बलवर्णसत्त्वसंहननसम्पदपेतः कृच्छण जायते । इति चार्थप्राप्त्या लभ्यतेऽर्थः ॥२॥ __ गङ्गाधरः-के भावास्ते येषां समुदायाद् गर्भो जायत इत्यत आहमातृजश्चायमित्यादि। मातृशब्देनाप्रदुष्टयोनिशोणितगभाशया स्त्री पितृशब्देनानुपहतरेताः पुमानभिधीयते। सत्त्वं मन औपपादुकमात्मनः शरीरग्रहणे साधकतमत्वेनोपपत्तिकरम् इति। इतिह पारम्पर्योपदेशम् ॥३॥
प्राप्तकाल इति प्राप्तप्रसवकालः प्रसवकालो नवमदशममासौ। परिपूर्णशरीर इति अव्यङ्गोपचितदेहः। सम्पच्छब्दो बलादिभिः प्रत्येकमभिसम्बध्यते। समुदायादिति सम्यङमेलकात् । 'एषाम्' इत्यनेन पुरुषस्येत्यादिग्रन्थोक्तान् रेतआर्त्तववीजसत्त्वसात्म्यरससम्यगुपचारान प्रत्यवमृशति ॥२॥
चक्रणणिः--एतदेव समुदायप्रभवत्वं गर्भस्य प्रत्येक मात्रादिगर्भकारणमुत्पादनेन दर्शयन्नाहमातृजश्चेत्यादि। साभ्यजश्चेत्यत्र सात्म्यशब्देन रसव्यतिरिक्तं रूपादि, उपचाराच सात्म्या प्रायाः। सात्म्यरसस्तु 'रस' इत्यनेनैव गृहीतः। औपपादुकमिति आत्मनः शरीरान्तरसम्बन्धोत्पादकम्। एतच्च व्याकृतमेव पूर्वम् । तत्र यद्यपि 'पुरुषस्यानुपहतरेतसः' इत्यनेन पितैव प्रथममुक्तः, तथापि मातृप्रथमतां दर्शयितु 'मातृजश्वायम्' इति प्रथमं कृतम् । अत्र माता च गर्भ प्रधानं कारणम् ; येन आसेकात् प्रभृति प्रसवपर्य्यन्तं मातुरेव गुणदोषावत्र विदधाति गर्भः । प्रथमतस्तु पुरुषस्य मैथुनस्वातन्त्रयात् तथा शरीरधारकप्रधानास्थिकारणत्वाचानेऽभिधानं कृतम् ॥३॥
For Private and Personal Use Only