________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः] शारीरस्थानम्।
१६२१ युक्तयोः संसर्गे तु शुक्रशोणितसंसर्गम् अन्तर्गर्भाशयगतं जीवोऽवक्रामति सत्त्वसम्प्रयोगात् तदा गर्भोऽभिनिवर्तते । स सात्मारसोपयोगादरोगोऽभिवर्द्धते सम्यगुपचारैश्चोपचर्ययुक्तयोरदुष्टयोनिशोणितगर्भाशयानुपहतरेतसोः स्त्रीपुरुषयोयुक्तयोऋ तुकाले संसर्गे सति अन्तर्गर्भाशयगतं गर्भाशयान्तर्निविष्टं शुक्रशोणितसंसर्ग तयोः स्त्रीपुरुषयोरपत्योत्पत्तिहेतुकर्मपरिणामे तदपत्यस्य च जन्मग्रहणहेतुकर्मपरिणामे च परस्परसंसृष्टशुक्रशोणितं सत्त्वसम्प्रयोगात् तदात्मनि नित्यानुवन्धस्य मनसो जवेन वायुनाभिप्रेय॑माणो जीवः सूक्ष्मदेहवान् विश्वरूपो भूतात्मा यदावक्रामति परलोकादवाधस्ताजन्मक्षेत्रे क्रामति तदा गोऽभिनिव्वेत्तते जायते।
ननु स्त्रीपुससंयोगकाले किञ्चिदेव शुक्रशोणितमन्तर्गर्भाशये संसर्गमेति कथं गभौऽभिवद्धते इत्यत आह–स सात्म्येत्यादि। स गर्भः सात्म्यं य आहाररसो मातुरात्मना धातुना सहैकीभूत आरोग्याय सम्पद्यते, तदाहारः सात्म्यीभूतस्तदुपयोगाद् गर्भिण्या अरोगो निर्विकारो गौऽभिवर्द्धते। असात्म्यरसोपयोगात् तु सविकार एव वर्द्धते न बरोग इत्यभिशब्देन ख्यापितम्। तदसात्म्यरसविशेषोपयोगाद गर्भ स्थितौ चोत्तरकालश्च रोगवद्भावेन वर्द्धते शरीरमिति। एवं सात्म्यरसोपयोगमात्रादेव किमेवं स्यादित्यत आहसम्यगुपचारित्यादि। सात्मारसद्रव्याणां सम्यगुपचारैः सात्म्यरसद्रव्याणां संसर्गरूप एव गर्भकारणम्, किंवा जीवाधिष्टाने सतीत्याह-यदेत्यादि। तथा युक्त इति अदृष्टरेतसः पुरुषस्य, अदृष्टयोन्यादेः स्त्रियाश्च संसर्ग। अयञ्चार्थः 'पुरुषस्य' इत्यादिनव लब्धोऽपि पुनः शुक्रशोणितसंसर्गम् इत्यादिग्रन्थे वक्ष्यमाणोऽपि कर्मविध्यर्थमनूद्यते। तेन न पौनरुक्ताम् । किंवा 'पुरुषस्य' इत्यादिना पूर्व, मैथुनात् प्रागनुपहतरेतस्त्वाधक्तम्, 'तथा युक्ते च' इत्यनेन मैथुनसमयेऽपि शुक्रयोन्यादीनामष्टिरुच्यते। मैथुनकाले हि ईर्ष्यादिना शुक्रदृष्टिः सम्भाव्यते। शुक्रशोणितसंसर्गमिति शुक्रशोणितमेलकम् । 'अन्तः' इत्यनेन गर्भाशयवाह्यगतं संसर्गमकारणं गर्भस्य निषेधयति। जीवशब्देन चेतनाधातुरात्मा, न त्वात्मा व्यापकः। तत् कथमयमवक्रामतीत्याह-सत्त्वेत्यादि। सत्त्वसम्प्रयोगादिति मनोगमनादित्यर्थः । तद् यथोक्तम्,-"युक्तस्य मनसा तस्य निर्दिशन्ति मनःक्रियाः" इति । यद्यप्यात्मा विभुत्वेन सर्वंगतत्वेन न याति, तथापि यत्रास्य कर्मवशान्मनो याति, तत्रैव चैतन्योपलब्धेरात्मापि गतः इति व्यपदिश्यत इति भावः । अथैवमुत्पनो गर्भः कथमभिवर्द्धते, कथं वा जायत इत्याह-सम्यगुपचारैरिति, गर्भहितकररित्यर्थः ।
२४१
For Private and Personal Use Only