________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयोऽध्यायः ।
अथातः खुड्डी कागर्भावकान्ति शारीरं व्याख्यास्यामः, इतिह रमाह भगवानात्रेयः ॥ १ ॥
पुरुषस्यानुपहतरेतसः स्त्रियाश्चाप्रदुष्टयोनिशोणितगर्भा - शयाया यदा च भवति संसर्ग ऋतुकाले यदा चानयोस्तथैव
गङ्गाधरः- अथ सम्पूर्णदेह इत्यादिप्रश्नोत्तरे शुक्रासृगान्माशयकालसम्पदित्यादिना यगर्भाभिनि तिरुक्ता तद्यथा स्यात् तदुपदेष्ट' खुड़ीकागर्भावक्रान्तिं शारीरमारभते - अथात इत्यादि । अथोक्तादनन्तरं, खुड्डीका शब्दोऽल्पवचनः । गर्भावक्रान्तिमिति लोकान्तरादवाधस्ताद् गर्भावक्रान्तिमधिकृत्य कृतं शारीरमिति तद्धितलुकि युक्तवक्तिवचने इति । सर्व्वमन्यत् पूब्व व्याख्येयम् ॥ १ ॥
गङ्गाधरः -- पुरुषस्येत्यादि । वातादिकृतशुक्रदोषा अष्टौ वक्ष्यन्ते । तैर्दोषरनुपहतमदुष्टं रेतः शुक्रं यस्य तस्य पुरुषस्य । योनिशोणितगर्भाशयानां दोषाश्च वक्ष्यन्ते । तैर्दोषैने प्रदुष्टा योनिश्च शोणितञ्च गर्भाशयश्च यस्यास्तस्याः स्त्रियाः । एवम्भूतयोः स्त्रीपुरुषयोरपत्योत्पत्तिहेतुकम्मपरिणामे गर्यो न भवतीति ख्यापनायाह - यदा चेत्यादि । अनयोः स्त्रीपुरुषयोस्तथा
चक्रपाणिः- पूर्वाध्याये शुक्रशोणिते गर्भकारणत्वेनोक्ते, न तु कृत्स्नं गर्भकारणमुक्तम्, अतः सम्पूर्णगर्भकारणाभिधानार्थं खुड्डीकागर्भावक्रान्तिरुच्यते । खुड्डीकामित्यल्पाम् । गर्भस्यावक्रान्तिमैलक उत्पत्तिरिति यावत् ॥ १ ॥
चक्रपाणिः - पुरुषस्येत्यादि । अनुपहतरेतसः इति शब्देनैव पुरुषस्य इति लभ्यते । यतः पुरुषस्यैव रेतसो गर्भजनकत्वमुक्तम् । तेन 'पुरुषस्य' इति पदेन, य एव सम्पूर्ण धातुः पुरुषशब्देन वाच्यो बालव्यतिरिक्तः, तं ग्राहयति । 'स्त्रियाश्व' इति पदमर्थलब्धं सत् यौवनवतीं स्त्रियं लम्भयति । संसर्गो मैथुनम् । ऋतौ पुष्पदर्शने प्रशस्तकाल ऋतुकालः । तेन ऋतुमात्रमादित्राहं निषेधयति । यतः रजस्वलाभिगमनमलक्ष्मीमुखाणाम् इत्यादिना श्रहं निषेधः । आर्त्तवदर्शनञ्च शरदातुसाधर्म्याद् ऋतुशब्देनोच्यते । यथा- - ऋतावुप्तानि वीजानि प्ररोहन्ति, तथा भर्त्तवदर्शनात् ऋतौ शुक्ररूपं वीजमुप्तमिति ऋतुसाधर्म्मयम् । न केवलमेवम्भूतः
For Private and Personal Use Only