________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः शारीरस्थानम्।
१६१७ सत्याश्रये वा द्विविधे यथोक्त पूर्व गदेभ्यः प्रतिकर्मनित्यम् । जितेन्द्रियं नानुपतन्ति रोगास्तत्कालयुक्तं यदि नास्ति दैवम् ॥४२ दैवं पुरा यत् कृतमुच्यते तत् तत् पौरुषं यत् विह कर्म दृष्टम् । प्रवृत्तिहेतुर्विषमः स दृष्टो निवृत्तिहेतुस्तु समः स एव ॥ ४३॥
गङ्गाधरः-तत्र पूर्वावस्थायां साधनमाह-सत्याश्रये वेत्यादि। सति द्विविधे यथोक्ताश्रये शरीरे मनसि च गदेभ्यः पूर्व रोगोत्पत्तेः पूर्व नित्यं प्रतिकर्म प्रतिक्रिया यस्य तं प्रतिकम्मै नित्यं तथा जितेन्द्रियं जितसत्त्वसंश जितमनोदोषरजस्तमसं पुरुषं रोगाः शारीरमानसदोषजा व्याधयो नानुपतन्ति नानुगच्छन्ति। नन्वेवमेव पुरुषं रोगाः किं नानुपतन्त्येव किं कदाचिदनुपतन्ति वेत्यत आह-तत्कालेत्यादि। तत्कालयुक्तं तत्काल. परिणतं पूर्वकृतकर्मजसंस्कारविशेषधर्माधर्मरूपादृष्टं यदि नास्ति न वर्त्तते, तदा उक्तं पुरुषं रोगा नानुपतन्त्येव इति दृढम् ॥ ४२ ॥
गङ्गाधरः-ननु दैवं किमित्यत आह-दैवमित्यादि । पुरा पूव्वजन्मनि कृतं यत् कर्म तद दैवमुच्यते । यत् तु कम्म इह जन्मनि कृतं तत् कर्म मानुषं पौरुषं दृष्टमुच्यते। स उभय जन्मकृतकर्मजः संस्कारविशेषः विषमोऽयोगातियोगमिथ्यायोगयुक्तश्चेत् तदा प्रत्तिहेतुः शरीरपरिग्रहार्थकारम्भाय प्रवर्तनं स्यात्। समस्तु समयोगयुक्तस्तु स उभयजन्मकृतकर्म जसंस्कारविशेष एव निवृत्तिहेतुर्गदोत्पत्तनिवृत्तो हेतुः समयोग एवेति ॥४३॥
चक्रपाणिः - प्रकारान्तरेण शारीरमानसरोगाणां चिकित्सा शास्त्र व्यवह्रियमाणामाहसत्येत्यादि-आश्रयशब्देन शरीरमनसी गृह्यते। पूर्व गदेभ्य इत्यनुत्पन्नेष्वेव रूपेषु। प्रति. कम्मनित्यमनागतचिकित्सानित्यम्। जितेन्द्रियमित्यनेन च रोगहेतुप्रज्ञापराधासात्म्येन्द्रियार्थवर्जनं दर्शयति, प्रतिकर्मनित्यतया चाशक्यपरिहारकालकृतदोषचिकित्सां दर्शयति । तत्कालयुक्तमिति तत्कालावश्यं रोगकततया पच्यमानम्। एतेन बलवदेवमवश्यं रोगं ददातीति दर्शयति ॥ ४२ ॥
चक्रपाणिः-प्रकरणाद दैवाख्यं कर्म तदनुषङ्गञ्च पुरुषकारमध्याह-दैवमित्यादि। तेन प्रकरणालभ्यमानतया जनपदोद्धंसनीयोक्तकर्मलक्षणेन समं न पौनरुक्तम् । पुरेति जन्मान्तरे। इहेति इह जन्मनि । प्रवृत्तिहेतुरिति रोगप्रवृत्तिहेतुः। विषम इति अधर्मरूपं दैवम्, रोगजनकश्च पुरुषकारः। समस्तु दैवं धर्मरूपम्, रोगपरिपन्थी च पुरुषकारः। स इति पुलिङ्गनिर्देशस्तु
For Private and Personal Use Only