________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१६ . चरक-संहिता। अतुल्यगोत्रीयशारीरम् रूपस्य सत्त्वस्य च सन्ततिर्या नोक्तस्तदादिर्न हि सोऽस्ति कश्चित् । तयोरवृत्तिः क्रियते पराभ्यां धृतिस्मृतिभ्यां परया धिया च ॥४१ इत्यादि। धा धर्मार्थाः क्रिया हषस्य निमित्तमुक्ताः। ततोऽन्यथा धम्म्यक्रियातोऽन्यथा अधाः क्रियाः शोकवशं नयन्ति । इति हपस्य शोकस्य च किं निमित्तमित्यस्योत्तरम् । अथ शरीरसत्त्वप्रभवाः शरीरप्रभवा दोषा वातपित्तकफाः, सत्त्वप्रभवा मनःप्रभवा दोषा रजश्व तमश्चेति पञ्च शारीरमानसा दोपास्तयोः शारीरदोषमानसदोषयोरवृत्त्या वत्तेनाभावेन भूयः पुनर्न ते शारीरमानसदोषजा रोगा भवन्ति ततो न च पुनर्जन्म भवति ॥ ४०॥ ।
गङ्गाधरः-ननु किं तहि सर्वेषामेव शारीरमानसदोषाणामवर्तनन पुनः कल्पान्तरेऽपि न भविष्यतीत्यत आह-रूपरयेत्यादि । रूपस्य रूप्यते यत् तद् रूपं शरीरं तस्य । सत्त्वस्य मनसश्च । सन्ततिरपरापरत्वेन सन्तानप्रतानं या तदादिस्तस्या आदिहेतुनौक्तः। कुत इत्यत आह-न हीत्यादि । हि यस्मात् स शरीरसत्त्वसन्ततेरादिर्न कश्चिदस्ति। अनादिर्हि शरीरसत्त्वसन्ततिः, सा वर्तत एव कस्यचिद्धर्मवशात् शरीरसत्त्वदोषावृत्त्या शरीरसत्त्वप्रभवा रोगा न भूयो भवन्ति। न तु सर्वेषां युगपदिति भावः। ननु शरीरसत्त्वदोषात्तिः कुतः स्यादित्यत आह-तयोरित्यादि। तयोः शरीरसत्त्वदोषयोरत्तिरसद्भारः पराभ्यामुत्कृष्टाभ्यां धृतिस्मृतिभ्यां चित्तस्य केवलब्रह्मात्मदेशवन्धरूपधारणा-ब्रह्मविशेषरूपमहदादिभावनारूपस्मृतिभ्यां परया श्रेष्ठया च धिया बुद्धया क्रियते, न तु पूर्वाभ्यरतश्लोकादिवस्तुस्मरणात् आपाततः क्रोशादिधारणात् गोब्राह्मणादिभक्तिशीलया बुद्धया तासां पूर्वतनसाधनावस्थिकलात् ।। ४१ ।। थति अधः क्रियाः। तयोरवृत्त्येति शरीरमनसोः सन्तानोच्छेदात्। मोक्षे हि शरीरमनसी निवर्तते। ततः सर्वथा रोगसन्ताननिवृत्तिर्भवति ॥ ४० ॥
चक्रपाणिः-ननु यद्यस्य निवृत्तिर्भवति, तदादिमद् भवति, तत् किं शरीरमनःसन्ततिरादिमती, येन तस्या निवृत्तिर्वास्तविकी रोगनिवृत्तिकारणमुच्यते इत्याह- रूपस्येत्यादि। रूपस्य शरीरस्थ । रूपं हि शरीरं रूप्यमाणत्वेन रूपशब्डेनोच्यते, यथा- 'रूपाद्धि रूपप्रभवः' इत्यत्रोक्तम् । नोक्त इत्यागमेषु। कुतो नोक्त इत्याह- न हि सोऽस्तीति। न हि सोऽस्ति स्वभावादेवेति नं.क्त इत्यर्थः । अथ येयमनादिमती शरीरमनःसन्ततिः, तत् कथं तस्या निवृत्तिरित्याह-तयोरित्यादि। त्योरिति शरीरसन्चयोः सन्तन्यमानयोः। पराभ्यामिति श्रेष्ठाभ्याम् । भृत्यादयस्तु यथा मोक्षकारणम्, तथोक्तं कतिधापुरुषीये। अनादिरपि च शरीरसन्ततिर्यथा विनश्यति, तथा च तत्रैवोक्तम् ॥४१॥
For Private and Personal Use Only