________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः शारीरस्थानम् ।
१६१५ रोगाः कुतः संशमनं किमेषां हर्षस्य शोकस्य च किं निमित्तम् । शरीरसत्त्वप्रभवा विकाराः कथं न शान्ताः पुनरापतेयुः ॥ ३८॥ प्रज्ञापराधो विषमास्तदर्था हेतुस्तृतीयः परिणामकालः। समियानां त्रिविधा च शान्तिर्ज्ञानार्थकालाःसमयोगयुक्ताः॥३६॥ धाः क्रिया हर्षनिमित्तमुक्तास्ततोऽन्यथा शोकवशं नयन्ति। शरीरसत्त्वप्रभवास्तु दोषाः ॐ तयोरवृत्त्या न भवन्ति भूयः ॥४०
गङ्गाधरः--अतः परं विकृताङ्गप्रसवप्रसङ्गेन विकारादीन् पृच्छति-रोगा इत्यादि। कुतो हेतो रोगा विकारा धातुवैषम्यरूपा भवन्तीत्येकः प्रश्नः । पूर्व वेदनाहेतुप्रश्नः कृतस्तेन गर्भस्थस्य रोगहेतुप्रश्नासिद्धेने पुनरुक्तः। श्लोकस्थाने कालबुद्धीन्द्रियार्थानामित्येतेनोक्तो व्याधिहेतुर्नाग्निवेशपृष्टः, परन्तु तत्रकारणोक्तः। इत्येतत्प्रकारेण भिन्न भिन्नखान्न पुनरुक्तदोषः। एषां रोगाणां किं संशमनम् इति द्वितीयः प्रश्नः। हर्षस्य शोकस्य च किं निमित्तम् इति तृतीयः प्रश्नः। शरीरसत्त्वप्रभवाः शारीरा मानसाश्च विकाराः शान्ताः सन्तः कथं पुनर्नापतेयु गच्छेयुरिति चतुर्थः प्रश्नः ॥ ३८ ॥
गङ्गाधरः-क्रमेणैषामुत्तराण्याह-प्रज्ञापराध इत्यादि। प्रशापराध एकः । विषमास्तदर्थास्तेषां प्रशाहेतूनांश्रोत्रादीनामाः शब्दादयः पञ्च, विषमा अयोगातियोगमिथ्यायोगयुक्ता द्वितीयः। परिणामकालः कालपरिणामः षड्सहोरात्रपूर्वकृताशुभकम्मस्वभावरूपरतृतीयः । सर्वामयानां हेतुः। इति रोगाः कुत इत्यस्योत्तरम्। अथ सामयानां त्रिविधा शान्तिः का त्रिविधेत्यत आहज्ञानेत्यादि। शानं बुद्धिरथैः शब्दादिः कालः परिणामस्ते समयोगयुक्ताः इति त्रिविधा समियानां शान्तिः। इति संशमनं किमेपामित्यस्योत्तरम् ॥३९॥
गङ्गाधरः-हर्षस्य शोकस्य च किं निमित्तमित्यस्योत्तरमाह-धा चक्रपाणिः- 'रोगाः कुतः' इत्येकः प्रश्नः। 'संशमनं किम्' इति द्वितीयः। 'हर्षस्य किं निमित्तम्' इति तृतीयः । 'शोकस्य किं निमित्तम्' इति चतुर्थः । शरीरसत्वप्रभवा विकाराः कथं न शान्ताः पुनरापतेयुः' इति पञ्चमः । एवं संग्रहवक्ष्यमाणं पत्रिंशकं प्रश्नानां पूर्यते ॥३८॥
चक्रपाणिः---प्रज्ञापराधादयः प्रकरणवशात् पुनरुच्यन्ते। परिणामकाल इति कालपरिणाम इत्यर्थः ॥ ३९ ॥
चक्रपाणिः-धा धर्मसाधनाः, ताश्च हर्षकारणधर्मकत्वेन कारणं भवति। ततोऽन्य* दोषा इत्यत्र रोगा इति चक्रः ।
For Private and Personal Use Only