SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६१४ चरक-संहिता। अतुल्यगोत्रीयशारीरम् अतीन्द्रियस्तैरतिसूक्ष्मरूपैराःमा कदाचिन्न वियुक्तरूपः। न कर्मणा नैव मनोमतिभ्यां न चाप्यहङ्कारविकारदोषैः ॥३६॥ रजस्तमोभ्यान्तु मनोऽनुबद्धं ज्ञानं विना तत्र हि सर्वदोषाः। गतिप्रवृत्त्योस्तु निमित्तमुक्तं मनः सदोषं बलवच्च कर्म ॥३७॥ गङ्गाधरः-अथात्मा सदा कैरनुवम्यते चेति तृतीयप्रश्नोत्तरमाह-- अतीन्द्रियरित्यादि। तैरतिमूक्ष्मरूपैर्वाग्वग्निपाथोधरणीतिचतुभूतैः अतीन्द्रियैः सह आत्मा कदाचिन्न वियुक्तरूपः सदैव युक्त इत्यर्थः। ननु तर्हि किमेतैरेव नान्ययुक्त इत्यत आह-न कर्मणेत्यादि। कर्मणा धर्माधर्माभ्यामात्मा न वियुक्तरूपः। मनोमतिभ्याञ्च नैवात्मा वियुक्तरूपः। न चाप्यात्मा अहङ्कारविकारदोपैवियुक्तरूपः। अहङ्कारश्च विकाराश्च पञ्चेन्द्रियाणि च पश्चार्थाश्च दोषाश्च तैस्तथा, अपि खात्मा मिश्रातिसूक्ष्मपञ्चभूतधर्माधम्ममनोबुद्धाहकारश्रोत्रादिपञ्चबुद्धीन्द्रियपञ्चकम्मेन्द्रियपञ्चशब्दाद्यर्थदोषैः सदा युक्त इत्यर्थः ॥३६॥ गङ्गाधरः-ननु दोषा अत्र किं वातादय इत्यत आह-रज इत्यादि। रजस्तमोभ्यामनुबद्धं मनः सत्त्वसंज्ञकं न तु सत्त्वमात्रम् । नीरजस्तमसि शुद्धसत्त्वे मनसि सात्त्विकमहत्तत्त्वरूपा विद्या बुद्धिर्नाम ज्ञानमुद्रिक्तं भवति, तद्विना सर्वदोषा ज्ञयाः। तस्माद् बलवत् सदोपं मनो बलवच्च कर्म पूर्वकृतकर्मजधर्माधर्मासम्बन्धात्मकृतपञ्चभूतम् एकदेहाद्गतिदेहान्तरे प्रत्तिर्या तयोनिमित्तमुक्तमिति तृतीयप्रश्नोत्तरम् ॥३७॥ चक्रपाणिः-आत्मा सदा कैरनुबध्यत इत्यस्योत्तरम् । अतीन्द्रियैरिति वीजर्मित्वेनोक्तः । अहङ्कारविकारा एव दोषाः । अयं सूक्ष्मभूताद्यनुबन्धो मनस एवेत्याह-रज इत्यादि। रजस्तमोभ्यां मनः सर्वैर्भूतादिभिरनुबद्धं भवति । अत्रैव हेतुः ज्ञानादित्यादि। ज्ञानादिति तत्वज्ञानात् । तत्त्वज्ञानं विना मनः सर्वदोषैर्युक्तं भवति । तत्त्वज्ञानात् तु निर्दोष भवतीत्याह । सदोषत्वे मनसः किं भवतीत्याह-गतीत्यादि। गतिदेहान्तरगमनम्। प्रवृत्तिर्धर्माधर्मक्रियासु प्रवृत्तिः। सदोषत्वे मनः संसारहेतुर्भवतीति वाक्यार्थः। गतिप्रवृत्त्योर्हेत्वन्तरमाहबलवच्च कर्मेत्यादि। बलवदिति नियमविपाकम् । फलवदिति वा पाठः, तत्रापि स एवार्थः । नियतं कर्मफलं कर्मबलादेव भवति । अत्र प्रश्नोत्तरेषु यदधिकमुच्यते गतिप्रवृत्त्योः इत्यादिना, तत् प्रकरणवशादेव ज्ञेयम् ॥३६॥३७॥ * ज्ञानादिति चक्रः। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy