________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः शारीरस्थानम् ।
१६१३ बद्वात्मस्थपश्चभूतानां रूपाद्विरूपप्रभवो विशिष्टरूपोत्पत्तिः प्रसिद्धः । तद् यथा-अदुष्टशुक्रस्य पुंसोऽदुष्टशोणितगर्भाशयया स्त्रिया सह संसर्ग गच्छतः शुक्र गर्भाशयगतमार्त्तवेन संयुक्तमसौ परलोकादवक्रम्य प्रविश्य पूर्व स्वस्मिन् स्थितादाकाशादाकाशं सृजति वायोर्वायु तेजसस्तेजोऽन्योऽपो भूमेभू मिमिति, तैः पञ्चभिरूपहितश्चात्मात्मानं जनयति वैश्वानराख्यम् । तेषामेकैकाधिकपञ्चभूतानि चाहतारिकश्रोत्रादीन्यनुप्रवेशयन् एतानि श्रोत्रादीनि स्थूलानि पञ्चेन्द्रियाणि मृति। तथा तैर्भूतैः पञ्चकम्मै न्द्रियाण्येवं स्वीयस्वीयरूपतो विशिष्टापूव्वरूपप्रभवो मनस्तश्च विक्रियमाणान्मनसः खल्वस्मिन् स्थूलदेहे मनसः सत्त्वात् सत्त्वं रजसो रजस्तमसस्तमः मृनति। तेष्वाहङ्कारिकमनःप्रवेशात् सत्त्वसंज्ञकस्थूलमनसो विशिष्टापूर्वरूपप्रभवो भवति प्रतिपुरुषं भेदेन । तथा प्रतिपुरुषे ये खाकृतिबुद्धिभेदाः स्थूलदेहे आकृतिविशेषाः बुद्धिविशेषाश्च तत्र विरूपाकृतिबुद्धिभेदेषु रजस्तमाकम्म च सदसत्कम्मकृतशुभाशुभफलजनकसंस्कारविशेषो धमाधम्मौ च मिलिखा हेनुः, न तु हेतवः पृथक् पृथगिति। नित्यं मनोयुक्तखेन त्रिगुणयोगः ख्यापितः इति देहात् कथं देहमुपैति चान्यमात्मेति द्वितीयप्रश्नोत्तरम् ॥३०-३५॥ रूपं भौतिक शरीरम् । तेन अभौतिकाच्छीराद् भौतिक शरीरं भवतीत्यागमप्रसिद्धम् । तेन आगमादेव साङ्ख्यदर्शनरूपादातिवाहिकशरीरात् तदुक्तं शरीरमुत्पद्यते इति वाक्यार्थः । यद्यपि शुक्ररजसी कारणे, तथापि यदैवातिवाहिक सूक्ष्मभूतरूपशरीरं प्राप्नुतः, तदैव ते शरीरं जनयतः, नान्यदा। यदि शुक्रशोणितमातिवाहिकशरीरनिरपेक्षं गर्भ जनयति, तदा जीवाधिष्ठानेन जनयेत्, न तु जनयति। तस्मादात्मस्थसुसूक्ष्मभूतादेव वीजरूपात् शुक्रशोणितयुक्ताद् गर्भजन्मेति । एतच्चात्मस्थभूतं मातापितृजभूमेन समं शरीरकारणं कर्मवशादेव भवतीत्याह ---कर्मेति । कात्म. कानामिति कर्मकारणकानाम्। किंवा रूपवत्तन्तुभ्यो रूपवान् पट उत्पद्यते इति प्रसिद्धम् । तेन आतिवाहिकशरीरादेव शरीरेण भवितव्यम्, कारणसदृशं कार्यं भवति। ततश्चात्मधर्मित्वं सूक्ष्माणामात्मस्थितभावानां सिद्धमिति भावः। अथ मनः सात्त्विकराजसतामसभेदात् भिन्नं कुतस्तत्र पुरुष भवतीत्याह-मनसो मनस्त इति। पूर्वजन्मन्यवस्थितं यादृक् मनः तस्मादिह जन्मभ्यपि तामोव मनो भवति । उक्तञ्चान्यत्र-“जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः। तेनैवाभ्यासयोगेन तच्चैवाभ्यस्यते पुनः” इति। तत्रापि मन-उत्पत्तौ कात्मकानाम् इति योज्यम् । तेन कर्मवशादेव मनोभेदो भवति। नन्वेवं सति आत्मस्थसूक्ष्मभूतात्मरूपकरूपत्वेनैकरूपेणैव शरीरेण सर्वप्राणिनां भवितव्यमित्याह-भवन्तीत्यादि। आकृतिः संस्थानम् । रजमस्तसी अनेकतरतमादिभेदभिन्ने तथा कर्म चानेकधा भिन्नम्, सत्यभिन्ने सूक्ष्ममूतरूपकारणे भेदकारणं न भवतीत्यर्थः ॥ ३५॥
For Private and Personal Use Only