________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९१२
चरक-संहिता। अतुल्यगोत्रीयशारीरम् भूतानि चत्वारितु कर्मजानि यान्यात्मलीनानि विशन्ति गर्भम् । स वीजधर्मा ह्यपरापराणि देहान्तराण्यात्मनि याति याति ॥३४॥ रूपाद्विरूपप्रभवः छ प्रसिद्धः कात्मकानां मनसो मनस्तः। भवन्ति ये त्वाकुतिबुद्धिभेदा रजस्तमः कर्म च तत्र हेतुः॥३५॥ इति त्रिविधानि चवारि भूतानि, चत्वारि तु कर्म जानि पूवजन्मकृतशुभाशुभकर्म फलानुरूपेणात्मस्थभूतजानि, चखारि वाय्वादीनि तु भूतानि यानि आत्मलीनानि सूक्ष्मदेहस्थानि चखारि भूतानि गर्भाशये मिथःसंयुक्तशुक्रशोणितात्मक गर्भ विशन्ति तानि चखारि वायवादीनि पूर्वकर्मानुरूपेण जनयन्ति तानि कम्मेजानि । नारायणाख्येन ब्रह्मणा सूक्ष्मदेहनिर्माणकाले निर्यातवशेन कालपरिणामेन नियतिविशेषतो जन्मजन्मकृतकम्मेधमाधम्मरूपं भवति । ननु कस्मात् तानि गर्भ प्रविशन्तीत्यत आह–स इत्यादि। हि यस्मात् स सूक्ष्मदेही भूतात्मा वीजधर्मा वीजं यथैवाङ्कुरं जनयति तथा स सूक्ष्मदेही भूतात्मा स्थूलान् जनयतीति वीजधर्मा अपरापराणि देहान्तराणि चेतनाधातावात्मनि याति सति तेन सहैव याति। सुश्रुते चोक्तम् । क्षेत्र इत्यारभ्य धाता वक्ता योऽसावित्येवमादिभिः पर्यायवाचकैर्नामभिरभिधीयते। दैवसंयोगादक्षयोऽव्ययोऽचिन्त्यो भूतात्मना सहान्वक्षं सत्त्वरजस्तमोभिदेवासुरैरपरैश्च भावैर्वायुनाभिप्रेय्यमाणो गर्भाशयमनुप्रविश्यावतिष्ठते। इति ।
ननु कथं वीजधर्मा वीजमिवाङ्कुरं किं वा जनयतीत्यत आहरूपादित्यादि। कत्मिकानां पूर्वकृतशुभाशुभकर्मफलधर्माधर्मानु
चक्रपाणिः-आत्मलीनानीति नित्यात्मसम्बद्धानि। आत्मलीनभूतानां धर्मान्तरमाह-स वीजधर्मेत्यादि। आत्मलीनमूतसन्तानो बीजस्वरूपः, वो हि स्वसदृशमङ्कुरं करोति। तेन अयमप्यात्मलीनो भूतसन्तानः सदृशं देहरूपं मूतान्तरसङ्गं कुर्वन् वीजधर्मा भवति। सा वीजधर्मिणीति वा पाठः, तदा सा मूतसन्ततिरित्यध्याहार्यम् । आत्मनीति मनोयुक्तात्मनि । यातीति गच्छति सति। याति गच्छति देहान्तराणीति योजना। आत्मनश्च गमनं मनोगमनमेव । परापराणीति वा पाटः। तदा पराणि श्रेष्ठानि देवादिशरीराणि, अपराणि अनेष्टानि क्रिम्यादिशरीराणीति योजनीयम् ॥ ३४ ॥
चक्रपाणिः-नन्वपरिदृश्यमाना मूतचतुष्टयी मनःप्रवृत्तिरुता किमर्थ स्वीकर्तव्या, यतः परि४ श्यमानमेवेदं पाड़ भौतिक शरीरं शुकशोणितकारणमस्तु, इत्याह-रूपादीत्यादि। रूप्यत इति
* रूपाद्धि रूपप्रभव इति चक्रः ।
For Private and Personal Use Only