________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः
शारीरस्थानम्।
१६११ रसात्ममातापितृसम्भवानि भूतानि विद्याटु दश षट् च देहे। चत्वारि तत्रात्मनि संश्रितानि स्थितस्तथात्मा च चतुर्ष तेषु ॥३२॥ भूतानि मातापितृसम्भवानि रजश्च शुक्रश्च वदन्ति गर्ने। आप्याय्यते शुक्रमसृक् च भूतैयस्तानि भूतानि रसोद्भवानि ॥३३॥
न ग्राह्य इत्यत आह–स नित्ययुक्। नित्यं मोक्षात् पूर्वपर्यन्तमविच्छेदैन सत्त्वानुरूपाणि युनक्ति इति नित्ययुक् । तेन सत्वायु पाधिमत्त्वेऽपि परात्मनो वैश्वानराद्यवस्थायामपि श्रोत्रादिपञ्चेन्द्रियाग्राह्यत्वम् । योगे शुद्धसत्त्वात्मकेन तु मनसा ग्राह्यत्वं ख्यापितम् । तदुक्तं व्यासेन । नैवासी चक्षषा ग्राह्यो न च शिष्टैरपीन्द्रियैः। मनसा तु प्रसन्नेन गृह्यते सूक्ष्मदर्शिभिरिति ॥ सुतरामयं सानुशयः। वैश्वानराधास्थायां सस्वायु पाधिमान सानुशयः रागाधनुत्तिशाली। एवम्भूतस्य चेतनाधातोः पड़धातुरूपस्य रसात्ममातापितृसम्भवानि चतुविधानि चलारि वायवादीनि भूतानीति दश षट् चेति षोड़शविधानि स्थूलदेहारम्भकाणि भूतानि निधिकारखानिष्क्रियतादेकविधमेवाकाशं न गण्यत इति साधारणानि विद्यादिति। दशेन्द्रियाणि पश्चभूतानि पश्चार्था इति विंशतितत्त्वात्मको देह इत्यर्थः। तत्र यानि चखारि वायवादीनि भूतानि आत्मनि संश्रितानि यथा तथा आत्मा च तेषु स्वाश्रितेषु चतुः वाय्वादिषु स्थित इति । मातापितसम्भवानि भूतानि वायवादीनि चखारितु रजश्च शुक्रश्च गर्भ वदन्ति, रजस्तु खल्याग्नेयं पाश्चभौतिकं शुक्रन्तु सौम्यं पाश्चभौतिकमिति । तद्रजःस्थानि चखारि मातृजानि शुक्रगतानि चवारि पितृजानि। गर्भ मिथःसंयुक्तं रजः शुक्रश्च यैतिकृताहारजरसगतैश्चतुर्भिभूतैराप्याय्यते तानि चलारि भूतानि रसोद्भवानि
चक्रपाणिः--आतिवाहिकशरीररूपभूनचतुष्टयव्यापकत्वकरणार्थ शरीरे यानि सम्भवन्ति भूतानि, तान्येवाह-रसान्मेत्यादि। एतानि मूतानि सारूप्य हेतुप्रस्तावोक्तान्यपि प्रकरणवशात् तथा वक्तव्यरजःशुक्राद्यनुक्तप्रतिपादनार्थञ्च पुनरुच्यन्ते। आत्मनि संश्रितानीति आत्मकम्मंणात्मम्यातिवाहिकदेहरूपतया यानि बरानि। स्थितस्तथात्मेति तेषु देहान्तरादिक्रियार्थं स्थितः । या गतिदेहान्तरादिनात्मनः, सा तदमूतव्यवस्थितस्योच्यते, न व्यापकस्य तस्य सर्वत्र सर्वगत. स्वादित्यर्थः ॥३२॥
चक्रपाणिः--मातापितृसम्मवानीति रजश्च शुक्रमिति यथासंख्यं मातापितृसम्भवानीति ॥ ३३ ॥
For Private and Personal Use Only