SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६१० चरक-संहिता। अनुल्यगोत्रीयशारीरम् स सर्वगः सर्वशरीरभृच्च स विश्वकर्मा स च विश्वरूपः। स चेतनाधातुरतीन्द्रियश्च स नित्ययुक् सानुशयः स एव ॥ ३१ ॥ कालमेव निम्मितमातिवाहिकं देहमस्माददेहाद देहं विहाय मनोजवो मनोवेगेनैव उपैति । मनोजवो मनसो जवो वेगो यस्य स मनोजव एवोपैति । कस्मात् तन्न दृश्यत इत्यत आह-कत्मिकखात्। तस्यास्मादेहादेहान्तरं गच्छतो भूतात्मनो रूपं पूवंकृतकम्मफलसम्बन्धात् वाय्वादिभिस्तत्कालमेव कृतखात् आतिवाहिकं वायुभूतनिराश्रयं सूक्ष्मभूतमयं रूपं, रूप्यते यत् तद रूपं शरीरम् दिव्यं प्राप्तिसिद्धिजनितमैश्वरवल विशेषं दर्शनं चक्षुर्विना न दृश्यं दर्शनयोग्यमस्ति। इति देहादन्यदेहगमनमुक्त्वा आत्मा सदा कैरनुवधाते चेति प्रश्नस्योत्तरमाह–स सवंग इत्यादि । स आत्मा सर्चगश्चेतनाचेतनसर्वगतः । सर्वगञ्चाकाशमित्यत आह-सर्वशरीरभृच्च । महदादिमुक्ष्माकाशादिस्थूलपर्वततर्वाद्यचेतनसुरासुरनरवानरादिचेतनाद्यतिस्थूलसर्वशरीरधारी।ननु तस्य च तत् तत्सर्वशरीरं कोऽन्यः कुरुते इत्यत आह स-विश्वकर्मेति। विश्वं चराचरं सर्व कर्म कायं यस्य स विश्वकर्मा । नन्वेवमस्तु तस्मादात्मनोऽन्यत् किमिदं सर्व शरीरम्, यतोऽयं सर्वशरीरभृद्विश्वकर्मा च इत्याशङ्कायामाह-स च विश्वरूपः। विश्वं सव्वं महदादिकं चराचरं रूप यस्येति वाक्येऽपि तथाखात्। विश्वत्वेन रूप्यते यः स विश्वरूपः। ननुस च क इत्यत आह–स चेतनाधातुरिति । चेतना चित् स्वयं प्रकाशते स्वप्रकाशेनान्यच्च प्रकाशयति सत्त्वादियोगेन प्राणिषु चैतन्यहेतुः। नन्वेवम्भूतः किं न दृश्यो भवतीत्यत आहअतीन्द्रियश्चेति। स चेन्द्रियाणि पश्च श्रोत्रादीन्यतिक्रान्तः । ननु मनसापि किं इति म्रियमाणदेहात्। देहमित्युत्पद्यमानदेहम् । कात्मकत्वादिति कर्माधीनत्वात्। तेन कर्म धर्माधर्मरूपं यदेनं भोगाथै नयति, तदेव देहमुपयातीत्युक्तं भवति। अथ गच्छन् किमित्ययं नोप लभ्यते म्रियमाणपुरुषादित्याह-न स्वित्यादि। तस्यात्मन भातिवाहिकशरीरयुक्तस्य दृश्यं रूपं नास्तीति सूक्ष्मरूपत्वादिति भावः। अथ किं सर्व एवैनं न पश्यन्तीत्याहदिव्यं विना दर्शनमिति। दिव्यं दर्शनं दिव्यचक्षुः। तेन योगिन एव पश्यन्त्येनमिति दर्शयति ॥३०॥ चक्रपाणिः-अस्यैवातिवाहिकशरीरयुक्तस्यात्मनो धर्मान्तराण्याह-स सर्वग इत्यादि। सर्वशरीरभृदिति सर्वशरीराणि भत्तुं योग्यः। विश्वकर्माकरणक्षमो विश्वकर्मा। विश्वरूपताञ्च नरपश्वादिशरीररूपतया कर्मवशाद भजत इति विश्वरूपः। नित्यं बुद्धयादिभिर्युज्यत इति नित्ययुक। सहानुशयेन रागादिना वर्तत इति सानुशयः ॥३१॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy