________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१८
चरक-संहिता। अतुल्यगोत्रीयशारीरम् हैमन्तिकं दोषचयं वसन्त प्रवाहयन् यौष्मिकमभ्रकाले । घनात्यये वार्षिकमाशु सम्यक प्राप्नोति रोगानृतुजान्न जातु ॥ ४४ नरो हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः। दाता समः सत्यपरः क्षमावानाप्तोपसेवी च भवत्यरोगः॥ ४५ ॥ ज्ञानं तपस्तत्परता च योगे यस्यास्ति तं नानुपतन्ति रोगाः । मतिर्वचः कार्म सुखानुबन्धि + सत्त्वं विधेयं विशदा च बुद्धिः॥४६
गङ्गाधरः-ननु कथं गदेभ्यः पूर्व प्रतिकर्मनित्यः स्यादित्यत आहहैमन्तिकमित्यादि। हेमन्तिकं हेमन्ततो दोषसञ्चयं वसन्ते आशु सम्यक् प्रवाहयन् निर्हरन्, ग्रेष्मिकं ग्रीष्मकाले दोषसञ्चयमभ्रकाले प्राट्काले आशु सम्यक् प्रवाहयन, वार्षिकं वर्षाकाले दोषसञ्चयं घनात्यये शरदि आशु सम्यक् प्रवाहयन पुरुषो जातु कदाचिन्न ऋतुजान रोगान् प्रामोति ॥४४॥
गङ्गाधरः-ननु तर्हि किमाहारविहारजान रोगान प्रामोतीत्यत आहनर इत्यादि। हिताहारविहारसेवी विषयेषु असक्तोऽनासक्तः सन समीक्ष्य सम्यक् कार्याका हिताहितखेन कर्त्तव्यं दृष्ट्वा कत्तं शीलं यस्य स समीक्ष्यकारी, दाता सद्दानशीलः, समः समदर्शी सर्वभूतेषु, सत्यपरः सत्यवागादिक्रियः, क्षमावान, आप्तोपसेवी गुरुङ्गद्धसिद्धमहादिसेवी अरोगो भवतीति दृढ़म् ॥४५॥
गङ्गाधरः-नन्वित्येवमात्रतोऽरोगाः किं भवन्ति न वेत्यत आह-ज्ञानमित्यादि । ज्ञानं भावानां तत्त्वज्ञानं तपो योगे तत्परता च यस्यास्ति तं पुरुषं रोगाः कदाचिदपि नानुपतन्ति उत्तरकालं नागच्छन्ति। इत्थश्च निवृत्त्यर्थ कम्मणि धर्माधर्मरूपतया तथा पुरुषकारस्य प्रत्यवमर्षाजज्ञेयः। अन्ये तु-'प्रवृत्तिहेतुः" इत्यनेन संसारप्रवृत्तिहेतुरिति, तथा “निवृत्तिहेतुः" इत्यनेन मोक्ष हेतुरिति च वर्णयन्ति ॥ ४३ ॥
चक्रपाणिः- अथ काल कृतदोपनिमित्तरोगपरिहारस्य प्रतिकर्मणः कर्त्तव्यतामाह-हैमन्तिकमित्यादि । वसन्त इति चैन। अभ्रकाल इति श्रावणे। घनात्यय इति मार्गशीर्ष । यदुक्तम्"माधवप्रथमे मासि" इत्यादिना "प्रवाहयेत्” इत्यन्तेन यथायोग्यतया वमनादिनेति ज्ञेयम् ॥४४॥
चक्रपाणिः- हेवितररोगाभावकारणमाह--नर इत्यादि । सम इति भूतेषु समचित्तः । सुखानुबन्धमिति लिङ्गविपरिणामात् मत्या वचसा च योज्ट.म् । तेन चात्मनः कर्माप्युत्तरकालीनसुख* जन्तुरिति वा पाठः।
f सुखानुबन्धमिति चकः।
For Private and Personal Use Only