________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः] शारीरस्थानम्।
१९०७ गर्भोपपत्तौ तु मनः स्त्रिया यं जन्तुव्रजेत् तत्सदृशं प्रसूते॥२४॥ गर्भस्य चत्वारि चतुर्विधानि भूतानि मातापितृसम्भवानि ।
आहारजान्यात्मकृतानि चैव सर्वस्य सर्वाणि भवन्ति देहे ॥२५॥ तेषां विशेषाद बलवन्ति यानि भवन्ति मातापितृकार्मजानि। तानि व्यवस्येत् सदृशत्वहेतुं छ सत्त्वं यथानकमपि व्यवरयेत् ॥२६
गङ्गाधरः-गर्भोपपत्तौ गर्भोत्पत्तिसङ्गकाले स्त्रिया मनस्तु यं जन्तु प्राणिनं बजेत् तत्प्राणिसदृशमपत्यं सा मुते। सुश्रुतेऽप्युक्तम् । पूर्व पश्येदृतुस्नाता यादृशं नरमङ्गना। तादृशं जनयेत् पुत्रं भर्तारं दर्शयेदत इति ॥२४॥
गङ्गाधरः-अपत्यस्य मातापितृसमरूपत्वे कारणान्तरश्चाह-गभस्येत्यादि। देहे देहविपये सर्वस्य गर्भस्यैव कारणानि मातापितृसम्भवानि आहारजानि आत्मकृतानि चैव सर्वाणि समस्तानि चतुर्विधानि चखारि वाय्वादीनि भूतानि न खन्यतमैकद्वित्रिविधानि न वा पञ्चविधानि एवकारेण व्यवच्छेदात्। आकाशन्तु न मातृसम्भवत्वेन पितृसम्भवत्वेन आहारसम्भवत्वेनात्मसम्भवत्वेन च चतुर्विधम् ; परन्खविकारत्वेन चतुष्कमेवैकविधं, ततो न चतुर्विधं पश्च भूतानीति मनसि कृखोक्तं चखारि भूतानीति। तेषां चतुर्विधानां चतुणां भूतानां मध्ये मातृपितृकर्मजानि शोणितजानि चखारि, लिङ्गा च सव्यदक्षिणादिचेष्टा इत्यादिना ज्ञेया। प्रकृतिं तृतीयामिति नपुंसकम् । गर्भोपपत्तावित्यादिना सारूप्यमाह- गर्भोपपत्तौ वीजग्रहणकाले मनी यं जन्तु व्रजेत् यं प्राणिनं मनसा ध्यायेत्। एतच्च वीजग्रहणकालीनं मनसानुध्यानं प्रभावादेव चिन्त्यमानसदृशमपत्यं करोतीति ज्ञेयम् । किंवा तत्कालीनचिन्तयैव वीजं चिन्त्यमानसदृशारम्भशक्तिकं क्रियते । दृष्टञ्च मानसानामपि भावाना भूतविशेषकरणे शक्तिविशेषः। यथा सङ्कल्पः शुक्रोदीरणं करोति, तथा दोहदाप्राप्तौ तच्चिन्तया गर्मविकृतिः, ईर्ष्याभयादीनामोजःशुक्रक्षयकर्त्तत्वमित्यादि। एतदेव च सादृश्यकारणं पश्यता पुनर्वक्तव्यम्,-"यथा-या या यथाविधं पुत्रमाशासीदिन्युपादाय सा सा तांस्तान् जनपदान् मनसानुक्रमेद" इति। जन्त्वनुध्यानं सादृश्यकारणमभिधाय सादृश्यकारणान्तरमाह-गर्भस्येत्यादि । चत्वारीति निर्विशेषमाकाशं वर्जयित्वा भूतानि। चतुबिधानीति विवृणोति-गातेत्यादि । मातृसम्भवानि रक्तगतानि, पितृसम्भवानि शुक्रगतानि । आहारजानि तु शुक्रशोणितोत्तरकालं मातुराहारसभ्भूतरसजानि। आत्मकृतानीति आत्मप्रतिबद्धकर्मवशप्रसूतानि ज्ञेयानि। तत्र शुभकर्मणा सदृशरूपजनकानि, अशुभकर्मणा _* सहशत्वलिङ्गमिति वा पाठः ।
For Private and Personal Use Only