________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९०६
चरक-संहिता। अतुल्यगीत्रीयशारीरम् सव्यानचेष्टा पुरुषार्थिनी स्त्री स्त्रीस्वप्नपानाशनशीलचेष्टा। सव्याङ्गगर्भा छ न च वृत्तगर्भा सव्यप्रदुग्धा स्त्रियमेव सूते। पुत्रं ततो लिङ्गविपर्ययेण व्यामिश्रलिङ्गा प्रकृति तृतीयाम् ॥२३ वीजग्रहणश्च शुक्रशोणितयोर्वन्धः सुरतान्ते च्युत्यभावः। सद्योऽनुगतस्य तत्क्षणमाधीयमानस्य गर्भस्यैतल्लिङ्गम्। सुश्रुतेऽप्युक्तं-तत्र सद्योगृहीतगर्भाया लिङ्गानि श्रमो ग्लानिः पिपासा सक्थिसदनं शुक्रशोणितयोरवबन्धः स्फुरणञ्च योनरिति । इति प्रथमप्रश्नोत्तरम् ॥२२॥ __ गङ्गाधरः-सव्यानचेष्टे त्यादि। या गर्भवती स्त्री पूर्व सव्यानचेष्टा सव्येन वामेनाङ्गेन क्रियामारभते पुरुषार्थिनी पुरुषसङ्ग काङ्गिणी स्त्रीखमपाना. शनशीलचेष्टा स्त्रीलोकस्य निद्रावत् पानवत् अशनवत् शीलवत् स्वमपानाशनशीलेषु चेष्टा क्रिया यस्याः सा तथा। सव्याङ्गगी सव्यपाश्व गर्भ स्थितिरूपा न च वृत्तः वत्तु लरूपो गर्यो यस्या दीर्घगर्भा इत्यर्थः। सव्यप्रदुग्धा स्तनयोदुग्धस्य प्रकाशारम्ये प्रथमं सव्यस्तने दुग्धं यस्याः सा तथा। स्त्रियमेव कन्यामेव सा मूते न तु पुत्रमिति। ततो लिङ्गविपय्ययेण सव्याङ्गचेष्टादिलिङ्गनो विपर्यायलिङ्गेन पुत्रं प्रमृते। व्यामिश्रलिङ्गा सव्यासव्याङ्गचेष्टा स्त्री सार्थनाभावा स्त्रीपु सोमयस्वमपानाशनशीलचेष्टा सव्यासव्यगर्भा न वृत्तगर्भा न दीर्घगर्भा युगपत्स्तनद्वयदुग्धा या स्त्री सा तृतीयां प्रकृति नपुंसकं मूते इत्यर्थः। सुश्रुतेऽप्युक्तं-तत्र यस्या दक्षिणे स्तने प्राक् पयोदर्शनं भवति, दक्षिणाक्षिमहत्त्वञ्च, पूर्वञ्च दक्षिणं सक्थ्युत्कर्षति । बाहुल्याच पुन्नामधेयेषु द्रव्येषु दोह दमभिध्यायति, स्वमपु चोपलभते पद्मोत्पलकुमुदाम्रातकादीनि पुन्नामान्येव, प्रसन्नमुखवर्णता च भवति, तां ब्रूयात् पुत्रमियं जनयिष्यतीति । तद्विपर्यये कन्याम् । यस्याः पाश्र्वद्वयमुन्नतं पुरस्तान्निगेतमुदरं मागभिहितलक्षणञ्च तस्या नपुंसकमिति विद्यात् । यस्या मध्ये निम्न द्रोणीप्रभूतमुदरं सा युग्मं प्रग्यत इति । इति द्वितीयप्रश्नोत्तरम् ॥ २३॥
चक्रपाणिः-वीजग्रहणं शुक्रस्य ग्रहगम्। स्त्रीस्वप्नेत्यादि--स्वाविहिता स्वप्नपानाशनशील. चेष्टा। सव्येन पार्चन आत्तो गृहीतो गर्भो यया सा सध्यात्तगर्भा । किंवा सध्यागगर्भति पाठः । न च वृत्तगर्भति दीर्घगर्भत्यर्थः। सव्यस्तने प्रकृष्टं दुग्धं यस्याः सा सव्यप्रदुग्धा। व्यामिश्र
* सध्यात्तगर्भति चक्रतः पाठः ।
For Private and Personal Use Only