SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २य अध्यायः शारीरस्थानम् । १९०५ गर्भस्य सद्योऽनुगतस्य कुतो स्त्रीनपुंसामुदरस्थितानाम् । किं लक्षणं कारणमिष्यते किं सरूपतां येन च यात्यपत्यम् ॥२१॥ निष्ठीविका गौरवमङ्गसादस्तन्द्राप्रहाँ हृदयव्यथा च । तृप्तिश्च वीजग्रहणश्च योन्या गर्भस्य सद्योऽनुगतस्य लिङ्गम् ॥२२॥ पुरुषवद्वापि प्रवत्तताङ्गना यदि। तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता॥ आसेक्यश्च सुगन्धी च कुम्भीकश्चेष्यकस्तथा। सरेतसस्वमी शे या अशुक्राः पण्डसंशिताः। अनया विप्रकृत्या तु तेषां शुक्रवहाः सिराः। हर्षात् स्फुटखमायान्ति ध्वजोच्छायस्ततो भवेत् ॥ आहाराचारचेष्टाभिर्यादृशीभिः समन्वितो। स्त्रीपुंसो समुपेयातां तयोः पुत्रोऽपि तादृशः॥ यदा नार्यावपेयातां वृषस्यन्त्यौ कथञ्चन। मुश्चन्त्यो शुक्रमन्योन्यमनस्थिस्तत्र जायते । ऋतुस्नाता तु या नारी खप्ने भैथुनमावहेत् । आत्तेवं वायुरादाय कुक्षौ गर्भ करोति हि। मासि मासि विवढेत गर्भिण्या गर्भलक्षणम् । कललं जायते तस्या वज्जितं पैतृकगुणैः। सर्पदृश्चिककुष्माण्ड-विकृताकृतयश्च ये। गर्भास्वते स्त्रियाश्चैव झेयाः पापकृता भृशम् । इति। आसेक्यादयः पुरुष दोषाः स्त्रीदोषाश्च । अनस्थिरल्पकोमलास्थिः। कललं सिंघाणप्रख्यम। पैतृकगुणैः केशश्मश्रुलोमनखास्थिसिरास्त्रायुधमनीरतःप्रभृतिभिः। सर्पवृश्चिकादिरूपस्तु मनुष्य पापाचय्येण भवति ॥१७-२०॥ गङ्गाधरः-अतः परं गर्भस्य लक्षणादिकं पृच्छति-गर्भस्येत्यादि। सद्योऽनुगतस्य तत्क्षणमेव कुक्षौ सम्भवतो गर्भस्य किं लक्षणमित्येकः प्रश्नः । उदरस्थितानां स्त्रीपुनपुसकानां किं लक्षणमिति द्वितीयः प्रश्नः। स्त्रीनपुसामिति समासान्तविधेरनित्यवेन नपुंसशब्दः सान्त इति बोध्यम् । गर्भस्योतपत्तो येन च कारणेनापत्यं सरूपतां समानरूपतां याति तच कारणं किमिति तृतीयः प्रश्नः ॥२१॥ गङ्गाधरः-क्रमेणैषामुत्तराण्याह-निष्ठीविकेत्यादि। निष्ठीविका ठीवन मुखेन स्वल्पोरिरणम् । गौरवमङ्गस्य । अङ्गसादोऽङ्गावसन्नता श्रान्तवमिव। तन्द्रा निद्रावत् क्लान्तिः। अप्रहषों ग्लानिः! हृदयव्यथा पीड़ेव हृदये । तृप्तिर्योन्याः । .. धक्रपाणिः-गर्भस्येत्यादि पञ्च प्रश्नाः । सधोऽनुगतस्येति सद्योगृहीतस्य । कारणमित्यादिकारणं कि तत्, येन कारणेन सरूपता सादृश्यमपत्यं गर्भो यातीत्यर्थः । अयच्च पञ्चमः प्रश्नः ॥२१॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy