SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९०४ चरक-संहिता। । अतुल्यगोत्रीयशारीरम् वाय्वग्निदोषाद वृषणौ तु यस्य नाशं गतौ वातिकषण्डकः सः। इत्येवमष्टौ विकृतिप्रकाराः कत्मिकानामुपलक्षणीयाः ॥ २०॥ प्राश्य ध्वजोच्छायं शिश्नोद्गमं लभते, तस्मादासेक्य इति संज्ञा । अस्य पर्यायः मुखयोनिरिति च। कश्चिदिमं वक्रिणं कुम्भीकमाह। सुश्रुते हुाक्त-स्वे गुदेऽब्रह्मचर्याद् यः स्त्रीषु पुंवत् प्रवर्तते। कुम्भीकः स तु विज्ञ य ईष्यकं शृण चापरमिति । व्याख्यातञ्चैतत् । यः पुरुषः रवे गुदे स्वकीयपायौ अब्रह्मचर्यात् अन्यपुरुषस्य व्यवायात् अन्यपुरुषं स्वे गुदे व्यवायं कारयिखा पश्चात् पुंवत् लब्धपुस्त्वबलः सन् स्त्रीषु व्यवायार्थ स्वयं प्रवर्तते स कुम्भीकः कुम्भीकनामा षण्डः। केचित् तु स्त्रीषु विषये तासां स्त्रीणां स्वे गुदे पशुवत् पृष्ठभागेऽनुद्गमशीलेन शिश्नेनाब्रह्मचर्यात् क्लैव्यरससंजातखात् प्रवृत्य पश्चात् तेन ध्वजोद्गमे जाते तासु स्त्रीषु पुवत् प्रवत्तते स कुम्भीक इत्याहुः। एतत्कुम्भीकोत्पत्तिहेतुः काश्यपेनोक्तः । अरजस्कां यदा नारौं श्लेष्मरेता बजेहतौ। अन्यसत्ता भवेत् प्रीतिर्जायते कुम्भी तत् सदेति ; इति वक्री कथं स्यादित्यस्योत्तरम् । ईर्ष्याभिभूतौ सन्तौ दम्पती मन्दहषौं भवतस्तावेव द्वौ ईारतः पुत्रस्य हेतु वदन्ति। सुश्रुते हि-दृष्ट्वा व्यवायमन्येषां व्यावाये यः प्रवत्तेते। ईष्यकः स तु विशे यः षण्डकः-इति। व्याख्यातञ्चैतत् । अयं दृगयोनिरप्युच्यते इति ईर्ष्याभिरतिः कथं स्यादित्यस्योत्तरम्। यस्य गर्भारम्भकाले वाय्वग्निदोषात् वृषणावण्डकोपौ नाशं गतौ स वातिकषण्डक इति; कथं वातिकपण्डको वा जायत इत्यस्योत्तरमिति। उपसंहरति-इत्येव मित्यादि। कत्मिकानामशुभकर्मफलविशेषहेतुकानाम् उपलक्षणीया इति वचनेन प्राधान्यादेतदष्टविधत्वं पाण्ड्यम् उक्तम् । अन्यदपि बोध्यम् । उक्तञ्च सुश्रुते। यः पूतियोनौ जायेत स सौगन्धिकसंशितः। स योनिशेफसोर्गन्धमाघ्राय लभते बलम् । यो भाव्यामृतौ मोहादङ्गनेव प्रवत्तते । ततः स्त्रीचेष्टिताकारो जायते पण्डसंशितः ॥ अङ्गनेव स्त्रीवदुत्तानीभूय विपरीतबन्धेन। स स्त्रीचेष्टिताकारः स्त्रीचेष्टावान स्त्रीजनाकारश्च। इति पुपाड्यानि। अथ स्त्रीषा ड्यमप्युक्तं सुश्रतेन। ऋतौ गर्भाशयं नियमान्नोपैति स 'वक्री'त्युच्यते। वीजदौर्बल्यतया पितुर्वक्री स्यादिति योजना। परव्यवायं दृष्ट्वा प्राप्तध्वजोच्छायो व्यवायासक्तो भवति, स ईर्ष्यारतिः। यदुक्तं सुश्रुते-"दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्तते। ईय॑कः स तु विज्ञेयः" इति । कम्मत्मिकानामितिपदेन एते क्लै व्यभेदाः प्राक्तनकर्मबलादेव प्रायो भवन्तीति दर्शयति ॥ १६-२०॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy