________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः शारीरस्थानम् ।
१६०३ शुक्राशयद्वारविघटनेन संस्कारवाहं हि करोति वायुः। मन्दाल्पवीजावबलावर्षों क्लीवौ च हेतुर्विकृतिद्वयस्य ॥ १८ ॥ मातुर्व्यवायप्रतिघेन वक्री स्याद बीजदौर्बल्यतया पितुश्च ।। ईर्ष्याभिभूतावपि मन्दहर्षावीरितेरेव वदन्ति हेतुम् ॥ १६ ॥ इति ; कस्मात् पवनेन्द्रियः स्यादित्यस्योत्तरम् । कम्मेवशाद वायुर्विगुणः सन् गर्भ शुक्राशयस्य द्वारविघट्टनेन दूषणेन पुत्रं संस्कारवाहं हि करोतीति ; कस्मात् संस्कारवाही स्यादित्यस्योत्तरम्। मातापितरौ सम्भोगकाले मन्दाल्पधीनों मन्दमतीक्ष्णशक्तिकमलपमल्पमात्रञ्च वीजं शाणितं शुक्रञ्चेत्युभयं ययोस्तो, अबलो नास्ति वलं वीय्यं ययोस्तो तथा, अहषों नास्ति हपो मैथनाथ लिङ्गागमस्पन्दनरूपो ययोस्तो, क्लीवो कैव्यदोषदुष्टवोजी, स्त्रीपुरुषो विकृतिद्वयस्य नरपण्डस्य नारीपण्डस्य च हेतुरिति ; कस्मानरनारपण्ड इत्यस्योत्तरम्। भातुः स्त्रिया यावाय प्रतियोनिच्छा तरवायजः पुत्रो वक्री स्यात्, पितुश्च वीजस्य शुक्रस्य दोब्बल्यतया हेतुना पुत्रो वक्री स्यात् । एष सुश्रुते खासेक्यसंज्ञक उक्तः, तद् यथा। पित्रोरत्यल्पवीजवादासेक्यः पुरुषो भवेत् । स शुक्र प्राश्य लभते ध्वजोच्छायमसंशयमिति। व्याख्यातञ्चैतत्। मातापित्रोरत्यल्पवोजखादासेक्यः पुरुष। भवत् । स यस्मात् अन्यपुरुपं निजमुखे व्यवायं कारयित्वा तत् सिक्तं शुक्र
भवतः, तत्र संयोगमहिम्नैव वीजांशे तापो भवतीति ज्ञ यम् । पवनेन्द्रियं विवृणोति-शुक्राशयमित्यादि । शुक्राशयं शुक्रस्थानम्। पवनेन्द्रियत्वं पवनशुक्रत्वम्। शुक्रहीनपवनस्य घेद शुक्रत्वम् यद् व्यवायकाले शुक्रसदृशरूपतया प्रयत्तनम् तद्वायुरेव परं व्यवायकाले याति । शुक्राशयद्वारेत्यादि संस्कारवाहिविवरणम्। द्वारविघटनेनेति द्वारदूषणेन। संस्कारेण वाजी. करणादिना परं यस्य शुक्रमदुष्टद्वारं सत् प्रवर्त्तते स संस्कारवाहः । अत्र च संस्कारवाहेण सुश्रुतोक्ता आसेक्यसौगन्धिककुम्भीका अन्तर्भावनीयाः। यतः, एतेऽपि संस्कारविशेपेणापि शुक्र त्यजन्ति, यदुक्तं तत्र --"पित्रोरत्यल्पवीर्य्यत्वादासेक्यः पुरुषो भवेत्। स शुक्र प्राश्य लभते ध्वजोच्छ्रायमसंशयम् । यः पूतियोन्यां जायेत स सौगन्धिकसंज्ञकः। स योनिशेफसोर्गन्ध. माघ्राय लभते बलम्। स्वे गुदे ऽब्रह्मचर्याद् यः स्त्रीपु पुवत प्रवर्तते। कुम्भीकः स तु विज्ञेयः" इति। मन्देत्यादि-मन्दवेगमल्पवीजं ययोस्तौ ! तथा अबलाविति निसर्गबलरहितौ। अहर्षाविति अनुत्साहौ। क्लीवाविति दृष्टवीजौ। अत्र यथोक्तगुणा स्त्री स्त्रीपण्डस्य, यथोक्तगुणः पुरुपस्तु पुरुपपण्डस्य हेतुरिति विज्ञेयम् । एतौ त्ववीजो ज्ञेयो, यदुक्तं सुश्रुते-"अशुक्ररत्वेवं पण्डक.” इति। मातुर्यवायप्रनिनेति व्यवायकाले विषमाङ्गन्यासेन प्रतिष्टितं यस्य शुक्र
For Private and Personal Use Only