________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०२
चरक-संहिता। अतुल्यगोत्रीयशारीरम् कस्माद द्विरेताः पवनेन्द्रियो वा संस्कारवाही नग्नारिषण्डः । वक्री ताभिरतिः कथं वा सञ्जायते वातिकपण्डको वा ॥१६॥ वीजात् समांशादुपतप्तवीजात् स्त्रीपुसलिङ्गी भवति द्विरेताः । शुक्राशयं गर्भगतस्य हत्वा करोति वायुः पवनेन्द्रियत्वम् ॥ १७ ॥
गङ्गाधरः---अतः परमपि पृच्छति कस्मादित्यादि। कस्माद् द्विग्नाः क्लीवं स्यात् ? कस्मात् पवनेन्द्रियोऽशुक्रः पुपान् स्यान ? कस्मात् संस्कारवाही वाजीकरणभेपजसंस्कारेणैव पुंस्त्ववान अन्यथा पुम्वहीन भवनि ? कस्मान्नरनारिषण्डः नरस्य नार्याश्चायं नरनारिः स चासो षण्ड चेनि नरनारिषण्डः, पुरुषषण्डः स्त्रीषण्डश्च स्यात् ? कस्मात् पुरुषो वक्री सुश्रुते आसेक्यः स्यात् ? कथमीया॑भिरतिरीयंकः सुश्रुतेऽभिहितः स्यात् ? कथं वातिकपण्डको वा जायते ? इत्यष्टौ प्रश्नाः ॥१६॥ ... गङ्गाधरः-तेषां क्रमेणोत्तराण्याह-वीजादित्यादि। द्विविधो हि द्विरेता नपुंसकम् ; एकस्तु समांशात् वीजात् शुक्रशोणितात् भवति द्वितीयस्तु उपतप्तवीजात् वातादिदोपेण जनकवीजशुक्रशोणितोपतापात् । स्त्रीपुसलिङ्गी योनिशिश्नोभयाभावेन साधारणचिह्नवान् । द्विरेताः शोणितश्च शुक्रञ्च द्वे रेतसी यस्य स तथा। पुमांस्तु शुक्रैकरताः स्त्री तु शोणितैकरता इति कस्मादद्विरेता इत्यस्योत्तरम् । गर्भगतस्य पुत्रस्य शुक्राशयं विगुणो वायुः कर्मवशात् हवा पवनेन्द्रियत्वं तस्य पुत्रस्य पवनेन्द्रियत्वं शुक्रधातुरहितत्वं करोति । पवनेन्द्रियसंज्ञा प्रसिद्धा
चक्रपाणि:-कस्मादित्यादि प्रश्नाष्टकम् । नरपण्डो नारिपण्डश्च नरनारिषण्डौ । वीजादिति शुक्रशोणितात्। उपतप्तवीजादिति उपतप्तवीजजनकवीजभावात। स्त्रीपुसलिङ्गीति स्त्रीपुरुषसाधारणनासिकाचक्षुरादिलिङ्गयुक्तः, यानि तु स्त्रीपुसयोरसाधारणान्युपस्थध्वजस्तनश्मश्रुप्रभृतीनि, तानि चास्य न भवन्तीति। असाधारणानि लिङ्गानि वृद्धेन शुक्रण रक्तेन वा जन्यानि । इह समरक्तशुक्रारब्धे तु नास्त्यन्यतरवृद्धिरिति नोपस्थध्वजादिविशेषलिङ्गभवनम् । द्विधा स्त्रीत्वपुरुषत्वोपजनकत्वे स्थितं रेतो यस्य स द्विरेताः ; किंवा स्त्रीपुसलिङ्गीति स्त्रीपुसयोर्यल्लिङ्गमुपस्थध्वजरूपम् तद्युक्त एव स्त्रीपुरुषलिङ्गी, उत्तरकालभावीन्यस्य स्तनशुक्रप्रभृतीनि न भवन्ति । अस्मिन् पक्षे वीजोपतापेनोत्तरकालभाविस्तनादिप्रतिबन्धः कर्मवशादेवेति ब्रवते ; किंवा उपस्थध्वजौ यी, तो गर्भसमकालमेव भवतः, स्तनादि तूत्तरकालभावितया दुर्बलम्, वीजोपतापेनापि न बलवतोरुपस्थध्वजयोर्बाधः, किन्तु दुर्बलानामेव स्तनादीनामिति। यत्र समांशे शुक्रशोणिते
For Private and Personal Use Only