________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः
शारीरस्थानम् ।
१६०१ भिनत्ति यावद् बहुधा प्रपन्नः शुक्रातवं वायुरतिप्रवृद्धः। तावन्त्यपत्यानि यथाविभागं कात्मकान्यस्ववशात् प्रसूते ॥१३ आहारमाप्नोति यदा न गर्भः शोषं समाप्नोति परिव तिं वा। तं स्त्री प्रसूते सुचिरेण गर्भं पुष्टो यदा वर्षगणैरपि स्यात्॥१४ कात्मकत्वाद विषमांशभेदाच्छुक्रासृजं वृद्धिमुपैति कुक्षौ। एकोऽधिको न्यूनतरो द्वितीय एवं यमेऽप्यभ्यधिको विशेषः ॥१५
कस्मात् सुते सहिते प्रमूते इत्यस्योत्तरम्। अतिपटद्धो वायुरन्तः प्रपन्नो यावद् बहुधा त्रिधा चतुर्दा पश्चधेत्येवमादिरूपं यावद बहुधा शुक्रार्त्तवं रक्ताधिक वा शुक्राधिकं वा किश्चिद्रक्ताधिकं किश्चिच्छुक्राधिकमित्येवं भिनत्ति, तावन्ति अपत्यानि यथाविभागं रक्ताधिका यावन्तो भागास्तावतीः कन्याः, शुक्राधिका यावन्तो विभागास्तावतः पुत्रान, पृथगवा अस्ववशात परवशात् धर्माधर्मवशात् कात्मकानि तेषाश्च कर्मतोऽपि प्रमूते इति कस्मात् तनयान बहून् वा प्रसूते इत्यस्योत्तरम् । गर्भः सम्भवन् कुक्षौ यदा मात राहारं नामोति तदा तदाहारजरसपोष्यो गर्भः स्वपोषकरसाभावतः शोषं समाप्नोति परिव तिं स्रावं वामोति। तच्चापृष्टमप्युक्तम् एककार्यखात् आहाराभावफलकथनार्थम् । स शोषमापन्नो गर्भः पुनः क्रमेणाहारजरसपुष्टो यदा वर्षगणैरपि यावता कालेन भवति तदा प्रमूतो भवतीत्यतस्तं शोषमापन्न गर्भ स्त्री सुचिरेण प्रसूते इति कस्मात् प्रमूत सुचिराच्च गर्भमित्यस्योत्तरमिति। कुक्षौ गर्भाशये। शुक्रासृजं कात्मकत्वात् पूर्वजन्मकृतशुभाशुभकर्मफलानुसारतः वायुना च विषमांशतो भेदाद् द्विभागीकृतखात् एको भागोऽधिकः सम् वृद्धिमुपैति द्वितीयो भागो न्यूनतरः स्यादिति, यमेऽप्यभ्यधिकोऽन्यतरन्यूनाधिको विशेषः इति कस्मादेकोऽभिवृद्धिश्च यमेऽभ्युपैतीत्यस्योत्तरम् ॥ ११–१५॥
यावद बहुधा भिनत्तीति यावतीं बहुसंख्यां करोतीति चतुःपञ्चादिरूपाम् । प्रपन्न आगतः शुक्रातवं वायुरिति सम्वन्धः। यथाविभागमिति यथा शुक्ररक्तविभागो भवति, तथा कन्याः सुताश्च स्ववीजाधिक्यापेक्षया भवन्तीति। कत्मिकानि अस्ववशात् कम्मधिीनत्वेन। आहारमित्यादौ गर्भिण्या आहाराप्राप्त्या गर्भस्याहाराप्राप्तिः। शुक्रासृजोर्यः स्थूलसूक्ष्मरूपो विषमांशभेदो भवति, स तु जायमानगर्भकर्मवशादेव भवतीत्याह- कात्मकत्वादिति ॥ ११-१५ ॥
For Private and Personal Use Only