________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६००
चरक-संहिता। अतुल्यगोत्रीयशारीरम् रक्तन कन्यामधिकेन पुत्रं शुक्रण तेन द्विविधीकृतेन। वीजेन कन्याञ्च सुतञ्च सूते यथास्ववीजान्यतराधिकेन ॥ ११ ॥ शुक्राधिकं द्वधमुपैति वीजं यस्याः सुतौ सा सहितौ प्रसूते। रक्ताधिकं वा यदि भेदमेति द्विधा सुते सा सहित प्रसूते॥ १२
कस्मात् प्रसूते, कस्माद्वा बहू स्तनयान् युगपत् प्रसूते, कस्माद्वा सुचिरात् कालात् प्रसूते, कस्माद्वा यमे यमके जायमाने तयोरेकोऽभिवृद्धिमभ्युपैति ? इति नव प्रश्नाः॥१०॥
गङ्गाधरः-अथैषां क्रमेणोत्तराण्याह-रक्तनेत्यादि। रक्तेन स्त्रिया आर्त्तवेन पुंसः शुक्रादधिकेन कन्यां प्रसूते इति कन्यां कस्मात् प्रसूते इत्यस्योत्तरम् । पुत्रं शुक्रेण स्त्रीरक्तादधिकेन प्रसूते इति कस्मात सुतं प्रसूते इत्यस्योत्तरम् । तेन तादृशरूपेण द्विविधीकृतेन वीजेन मैथनतः प्रच्युते ये शुक्रशोणिते वीजरूपे वायुनान्तर्गर्भाशये द्विविधीकृते तयोर्वीजयोर्यथास्वम् अन्यतराधिकेन, रक्ताधिकेन भागेन कन्यां शुक्राधिकेन भागेन सुतमिति कन्यापुत्ररूपं यमकं प्रसूते इति कस्मात् सहितौ कन्यापुत्रौ प्रमृते इत्यस्योत्तरम्। सुश्रुतेऽप्युक्तम्। वीजेऽन्तर्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतो। यमावित्यभिधीयेते धमतरपुरःसराविति ॥ यथास्ववीजान्यतराधिकेनेति वायुनान्तरद्विविधीकृतेन रक्ताधिकेन वीजेन कन्यां पृथगेकां प्रसूते ; शुक्राधिकेन तु पुत्रं पृथगेकं प्रसूते इति कस्मात् पृथगवा कन्यां सुतञ्च प्रसूते इत्यस्योत्तरम्। यस्या वीजं शुक्राधिकं शक्राधिकमेव सत् द्वैधं वायुनान्तःद्विधीकृतत्वमुपैति सा स्त्री सहितौ यमकरूपेण सुतौ द्वौ प्रसूते इति सुतौ वा कस्मात् प्रसूते इत्यस्योत्तरम् । यस्या वीजं रक्ताधिकं भवति तदेव रक्ताधिकमेव यदि द्विधा भेदमुपैति, तदा सा सहिते युगलरूपेण सुते द्वे प्रसूते इति
तनयान् बहून् वेति षष्ठः, सुचिरेण कथं स्त्री प्रसूत इति सप्तमः ; यमे युग्मे कथमेकोऽभिवृद्धिम् अभ्युपतीत्यष्टमः ॥ १० ॥
चक्रपाणिः-- रक्तनेत्यानत्तरम्। अधिकेनेति पदं रक्तन शुक्रेण च योजनीयम्। द्विविधीकृतेन द्विखण्डीकृतेन । यथास्ववीजान्यतरे भागेऽधिकं यत्, तेन वीजेन । एतेन, यदि द्विविधे भागे एकत्र रक्तमधिकम्, अपरत्र शुक्रम् , एष विभागो भवति, तदा सुतौ भवत इत्युक्तं भवति ।
For Private and Personal Use Only