________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोत्रीयशारीरम्
१६०८
चरक-संहिता। कस्मात् प्रजां स्त्री विकृतां प्रसूते हीनाधिकाङ्गी विकलेन्द्रियाश्च। देहात् कथं देहमुपैति चान्यमात्मा सदा कैरनुबध्यते च ॥२७॥ शुक्रजानि चनार्यात्मजानि चखारि तानि त्रिविधानि भूतानि वाय्वादीनि विशेपाद बलवन्ति भवन्ति, तानि मातृजानि पितृजानि कर्मजानि च वाय्वादीनि विशेषतो बलवन्ति स्युस्तानि सदृशखहेतु व्यवस्येत्। मातृशोणितिकबलवद्वाय्वादीनि कर्मजसहितानि मातृसदृशखहेतु पितृशुक्रीयबलवद्वाय्वादीनि कर्मजसहितानि पितृसदृशखहेतु व्यवस्येत् । यथानू कं गर्भारम्भकाले मातृपितृसत्त्वानूरूपं सत्त्वं मनश्च मनःसदृशखहेतु मातृसत्त्वानू कसत्त्वं मातृसदृशखहेतु पितृसत्त्वानूकसत्त्वं पितृसदृशखहेतुं व्यवस्येत्। एतेन यस्य यस्य सत्त्वानूकसत्त्वं भवति तत्सदृशसत्त्वञ्च तस्य भवतीति ख्यापितम्। इति तृतीयप्रश्नोत्तरम् ॥२५।२६ ॥
गङ्गाधरः-अथ पुनः पृच्छति–कस्मादित्यादि। कस्माद्धेतोः स्त्री प्रजां प्रजायते इति प्रजा तामपत्यरूपां विकृतां प्रमूते। ननु प्रकृतिरात्मा तदितरत् सर्च विकृतं किं तस्य प्रश्न इत्यतस्तत्प्रश्ननिरासार्थ विकृतत्त्वं विकृणोति भाष्येण। हीनाधिकाङ्गी हीनाङ्गी तथाधिकाङ्गीञ्च विकलेन्द्रियाञ्च प्रजां विकृतां तु विसदृशरूपजनकानीति ज्ञेयम्। यानि त्वात्मनि सूक्ष्माणि भूतानि आतिवाहिकरूपाणि, तानि सर्वसाधारणत्वेनगविशेषसादृश्यकारणानीति नेह बोद्धव्यानि । तत्र एवं चतुर्विधानां सादृश्ये किं सादृश्यकारणं किम्भूतं वेत्याह- तेषामित्यादि। विशेषाद' इतिपदेन सर्वाम्येव सादृश्यकारणानि भवन्ति, लिन्तु यानि बलवन्ति, तानि विशेषाद् भूयिष्टसादृश्यं जनयन्तीति दर्शयति । अत्र चाहारभूतानां प्राक्तनकर्मापेक्षयैव सादृश्यकारणत्वं भवतीति कृत्वा नाहारजानां ग्रहणं कृतम्, तेन कर्मजेष्वेवाहारजातानामवबोधो ज्ञेयः। पूर्वन्तु 'आहारजानि' इति पदेन तेषां विद्यमानतामात्रमुक्तं ज्ञेयम् । किंवा मातृजादीनि हि मात्रादिभिः सदृशं कुर्वन्ति, न स्वाहारजातानि आहारसदृशं कुर्वन्ति। तेन तेषामिहानुपादानम् । तथा हुपत्तराध्याये-"यानि खरवस्य रसजानि" इत्यादिना प्राणानुबन्धादीनि वक्तव्यानि, न च तानि सादृश्यरूपतयेह भवितुमर्हन्तीति इह नोक्तानि । सादृश्यहेतुमभिधाय मनःसादृश्यहेतुमाह-सत्त्वमित्यादि । अनूकं प्राक्तनाब्यवहिता देहजातिः। तेन यथानूकमिति यो देवशरीरादव्यवधानेनागत्य भवति, स देवसवो भवति, यः पशुशरीरादेति, स पशुसत्वो भवतीत्यादि। अपिशब्दात् कर्मसम्बन्धं जाति सम्बन्धञ्च दर्शयति। तेन कर्मवशादेव सत्वं राजसं तामसं सात्विकं भवति, तथा मानुषादिजात्यनुरूपञ्च भवति ॥ २२-२६ ॥
चक्रपाणि:- कस्मादित्यादिना विकलेन्द्रियान्चेत्यन्तेन एकः प्रश्नः। तत्र 'विकृताम्' इत्यस्य विवरणम्-हीनेत्यादि। देहादित्यादि द्वितीयः। सदा कैरनुबध्यते इति तृतीयः । ये तु
For Private and Personal Use Only