________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः
शारीरस्थानम्।
१८६७ संपूर्णदेहः समये सुखञ्च गर्भः कथं केन च जायते स्त्री। गर्भ चिराद् बिन्दति सप्रजापि भूत्वाथवा नश्यति केन गर्भः॥४ शुक्राटुगात्माशयकालसम्पद् यस्योपचाराश्च हितैस्तथाथैः । गर्भश्च काले च सुखी सुखश्च संजायते संपरिपूर्णदेहः ॥५॥
शुक्रं पितृयानेन प्रत्यागतवीजधावधिष्ठितं षड़सप्रभवं वाय्वादिचतुर्भूतरूपचतुष्पाच्च धीराः प्रवदन्ति। वाय्वादीनां चतुणों पादानां गुणवन्न तु वैगुण्ययुक्तम्। वैगुण्ययुक्तन्तु यच्छुकं तस्य गर्भहेतुखाभावान्न प्रकृतं शुक्रमुच्यते। आकाशस्य तु सर्वद्रव्यारम्भे वाय्वादिवद्धतुत्वेऽपि व्यापदभावात् तस्येह पादत्वेनोक्तिनं कृता, सम्पदुपेतशुक्रस्य प्रश्नविषयखात् ॥३॥
गङ्गाधरः--इत्येवमुक्तवन्तं गुरु पुनरग्निवेशः पप्रच्छ-सम्पूर्णदेह इत्यादि । ननु गर्भः केन हेतुना सम्पूर्णदेहः सन् समये यथाकाले सुखश्च यथा स्यात् तथा कथं केन प्रकारेण केन हेतुना च जायते इति। एवं स्त्री समजापि सापत्यापि पुनः केन हेतुना चिराद विन्दति बहुकालमतीत्य गर्भ गृह्णाति ? अथवा केन हेतुना गभी भूखा नश्यति। इति त्रयः प्रश्नाः ॥४॥
गङ्गाधरः-एषामुत्तरमाह-शुक्रामृगित्यादि । यस्य जनिष्यमाणस्य गर्भस्य आरम्भकाणां शुक्रामृगात्माशयकालानां सम्पद वनेते। शुक्रसम्पत् शुक्रदोषा
दर्शयति। वाय्वादिषु शुक्रारम्भकेषु 'पाद'व्यपदेशेन सवपां तुल्यशुक्रारम्भकत्वं दर्शयति । आकाशन्तु यद्यपि शुक्रे पाञ्चभौतिकेऽस्ति, तथापि न पुरुषशरीरान्निर्गत्य गर्भाशय गच्छति, किन्तु भूतचतुष्टयमेव क्रियावद् याति, आकाशन्तु व्यापकमेव तत्रागतेन शुक्रेग सम्बद्धं भवति । तेन आकाशस्य गमनाभावादिह गर्भाशयगमनाभिधानप्रस्तावे शुक्रगतत्वेनानभिधानम् । अन्यत्रापि च भूतानां गमनप्रस्तावे आकाशं परित्यक्तमेव। यथा --मूतैश्चतुर्भिः सहितः सुसूक्ष्मैमनोजवो देहमुपैति देहाद" इति। शुक्रञ्च पडूसाहारोत्पन्नमेव विशुद्ध भवतीति कृत्वोक्तम्-'षड्भ्यो रसेभ्यः' इत्यादि। यत् तु मधुरस्य शुक्रजनकत्वम् अम्लादीनाञ्च शुक्रविघातकत्वमुच्यते, तदत्यर्थोपयोगादिति ज्ञेयम् ॥ ३ ॥
चक्रपाणिः--सम्पूर्णदेहः कथं जायते इत्येकः प्रश्नः, समये कथं जायते इति द्वितीयः, सुखं कथं जायते इति तृतीयः। सप्रजापि इत्यबन्ध्यापि सती कथं चिरेण गर्भ बिन्दति ॥ ४ ॥
चक्रपाणिः--पश्चानां प्रश्नानामुत्तरं-शुक्रेत्यादि। 'सम्पत्'शब्दः शुक्रादिभिः प्रत्येकमभि. सम्बध्यते। शुक्रासृगाशयानामुष्णत्वं सम्पद, आत्मनस्तु शुक्रशोणितयोगाधिष्ठातुः शुभजीवकर्म
For Private and Personal Use Only