________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८१८
चरक-संहिता। अतुल्यगोत्रीयशारीरम् योनिप्रदोषान्मनसोऽभितापाच्छुकास्गाहारविहारदोषात् । अकालयोगाद बलसंचयाच गर्भ चिराद विन्दति सप्रजापि॥६॥ अमृङ निरुद्धं पवनेन नार्या गर्भ व्यवस्यन्त्यबुधाः कदाचित्। गर्भरय रूपं हि करोति तस्यास्तदासृगस्रावि विवर्द्धमानम्॥७॥
भावः। अमृसम्पदाविदोषाभावः। आत्मसम्पत् आत्मनः पुनर्भवहेतुशुभदिष्ट कलोन्मुखीभावः। आशयसम्पत् स्त्रिया गर्भाशयदोषाभावः । कालसम्पत् शुभतिथिनक्षत्रकरणयोगदिनत युगादिभावः । तथा हितैरथैर्मातुः आहारविहारैरुपचारा यस्य गर्भस्य जायमानस्य स हि गर्भः काले सुखी परिपूर्णदेहः सन् सुखं यथा स्यात् तथा जायते । अन्यथा खन्यथा स्यात् इति प्रथमप्रश्नोत्तरम्। केन स्त्री गभं चिराद बिन्दति सप्रजापीति प्रश्नस्योत्तरमाहयोनिप्रदोषादित्यादि। योनिप्रदोषो विंशतियोनिव्यापदो वक्ष्यन्ते। मनोऽभितापाद् धननाशादितो मनस्तापात् । शुक्रादिदोषात्। अष्टौ रेतोदोषा वक्ष्यन्ते। अमृग्दोषा अमृग्दराधिकारे वक्ष्यन्ते। आहारदोषा गर्भव्याघाताहाराः। विहारदोपा व्यायामादयः। अकालयोगात् अपत्ये जातेऽपि पुनर्वहुकालं पुसम्भोगाभावे पुनः पुंसम्भोगोऽप्यकालयोगः। वलसंक्षयाद् व्याध्या दिभिः स्त्रिया दौर्बल्यात्। सप्रजापि स्त्री चिरकालानन्तरं पुनर्गभं विन्दतीति । गर्भो भूत्वा केन हेतुना नश्यतीति प्रश्नस्योत्तरमाह अमृङ निरुद्ध मिति। पवनेन स्वहेतुभिर्विगुणेन वायुना निरुद्धं ना- अमृगातवं कदाचिदबुधा गर्भ व्यवस्यन्ति, वस्तुतो न च स हि गर्भः। कस्मादबुधा एवं व्यवस्यन्ति, तत्राह- गर्भस्येत्यादि। हि यस्मात् तस्याः पवनरुद्धात्तैवाया अस्रावि
युक्तत्वं सम्पत्, कालस्य त्वनतितीक्ष्णत्वादि सम्पत्, उपचारो गर्भिण्युपचारः। काल इति नवमे दशमे च मासे । यदुक्तम् -- “कालः पुनर्नवमं मासमुपादाया दशमात्” इति । सुखीति व्याधिना केनचित् न ग्रस्तः। सुखमित्यक्ल शेन ॥५॥
चक्रपाणिः- अकालयोगादिति ऋतुकालातिक्रमे पुरुषेण संयोगात, ऋतुकालश्च पोड़शरानं यावत्। यदुक्तं..."पोडश दिवसा ऋतुकालः" इति । सुश्रुते तु द्वादशरात्रं ऋतुकाल उक्तः । 'मृत्वाथवा नश्यति केन गर्भः' इत्यस्योत्तरम्-असृगित्यादि। पवनेनेति दुष्टपवनेन कृते असृङनिरोधे गर्भभ्रमो भवतीत्याह- गर्भस्य रूपम् इत्यादि। गर्भाशये हि विवर्द्धमानं रुधिरं
For Private and Personal Use Only