SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८६६ चरक-संहिता। [ अतुल्यगोत्रीयशारीरम् शुक्र तदस्य प्रवदन्ति धीरा यद धीयते गर्भसमुद्भवाय । वायग्निभूम्यवगुणपादवत् तत् षड़ भ्योरसेभ्यः प्रभवश्च तस्य॥३ वचनेन परजायायां मिथुनीकृतस्य रहोविसृष्टविषये किमयं प्रश्नो न तु स्वजायायामतुल्यगोत्रसाभावादिति ? नैवं, शास्त्रे हि धर्म्यविषयं प्रष्टा पृच्छति चोपदेष्टा चोपदिशति, न बधयेविषयम् । धम्यं हि वैध कर्म भवत्यवैधमधम्म्यम्। तत्र वैधं स्वल्पमनल्पमवैधमित्यनल्पानामवैधानां प्रश्नश्च उत्तरश्च न युज्यते। स्वल्पस्यापि वैधस्य ज्ञानेनानल्पानामवैधानां शानसिद्धेः। तस्मादयं धयेविषय एव प्रश्नः। धम्म्यो हि मिथुनीभावः पुंसः खजायायां, न परजायायामिति। ननु जाया पुसस्तुल्यगोत्रा न खतुल्यगोत्रा कथमतुल्यगोत्रस्येत्युपपद्यते इति चेत् ? तत्र ब्रूमः। शास्त्रे धम्म्येसा प्रष्टणामुपदेष्टणाञ्चेयं रीतिः, यत्र वत्तेमानावस्थया प्रश्न उत्तरं वा न युज्यते तत्र विस्थयैव प्रश्न उत्तरं वा क्रियते। यथा मनुरुपादिशत् । असपिण्डा च या मातुरसगोत्रा च या पितुः। सा प्रशस्ता द्विजातीनां दारकर्मणि मैथने । इत्यत्र पितुः सगोत्रावजनेन मातुः सपिण्डावज्जेनसिद्धौ पुनर्मातुरसपिण्डेति वचनानर्थक्यम्, न च मातृपदेन तात्पर्य्यानुपपत्तितो लक्षणया मातामह उच्यते । पश्यति हि खाचाय्यः। अस्ति मातृशब्दश्वास्ति मातामहशब्दश्चेति। मातामहसासपिण्डा चासगोत्रा च या पितुरित्येवं मुख्याथपदं नोक्त्वा यदसपिण्डा च या मातुरित्युक्तं तेन न लक्षणया मातामहे तात्पर्यम्। किं तहिं ? मातुः वर्तमानावस्थया तूपदेशानुपपत्तो पूर्वावस्थयैवोपदेशः कृतः। प्राग विवाहात् मातुर्या सपिण्डा सा वजनीयेति । एवमत्रापि। प्राग् विवाहाद या न तुल्यगोत्रा सा विवाहे तुल्यगोत्राप्यतुल्यगोत्रा तदितरा खधम्म्यति। तस्याः प्राग विवाहादतुल्यगोत्रसा पत्युर्जायाया रजःक्षयान्त इत्यथ इति प्रश्नः॥२॥ गङ्गाधरः-अस्योत्तरमाह-शुक्रमित्यादि। अतुल्यगोत्रेण पुसा रजःक्षयान्ते मिथुनीभूतेन स्त्रियां गर्भसमुद्भगय रहोविसृष्टं यद्धीयते तदस्य पुसः प्रभवस्वे उत्तरग्रन्थे व्यक्ते । अञ्च शिष्यप्रश्नतया निवेशितो ग्रन्थः अज्ञशिष्यार्थाचार्यसम्मतिमात्रार्थो ज्ञेयः। तेन यः शिष्यश्चतुष्पदा विशेषं जानाति, स कथं शुक्रशब्दाभिधेयं वेत्तीति न वाच्यम् ॥ १२॥ चक्रपाणिः-प्रश्नस्योत्तरं-शुक्रमित्यादि। धीयत आरोप्यत । वाय्वादिपादवति वक्तव्ये यद गुणपदमधिकं करोति, तेन प्रशस्त गुणवतामेव वारवादीनां विशुद्धशुक्रारम्भकत्वमिति For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy