________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयोऽध्यायः। अथातोऽतुल्य गोत्रीयं शारीरं व्याख्यास्यामः,
इतिह स्नाह भगवानात्रेयः ॥ १ ॥ अतुल्यगोत्रस्य रजःक्षयान्ते रहोवितृष्टं मिथुनीकृतस्य । किं स्याच्चतुष्यात्प्रभवञ्च षड़ भ्यो यत् स्त्रीषु गर्भवमुपैति सः॥२
गङ्गाधरः-अथैवं बद्धः पुरुषो यः पड़धातुकः स पुनःपुनयंदिह जायते मनुष्ययोनी विविधरूपस्तत् कथं कुतः कारणाजायते तद्विज्ञानाथेमतुल्यगोत्रीयं शारीरमारभते-अथात इत्यादि। अतुल्यगोत्रस्येतिवाक्यस्थातुल्यगोत्रेतिपदमधिकृत्य कृतः शारीरोऽध्याय इत्यतुल्यगोत्रीयः शारीरोऽध्यायः। शेष पूर्ववद व्याख्येयम् ॥१॥
गङ्गाधरः-अथ प्रश्नः-अतुल्यगोत्रस्येत्यादि। यो यया न तुल्यो गोत्रः स तस्या अतुल्यगोत्रः। अपत्यं पौत्रप्रभृतिगोत्रमिति पाणिनिः। अतुल्यगोत्रस्य पुरुषस्यातुल्यगोत्राया नार्या मास पूवेसश्चितरजसो मासान्ते प्रवृत्तस्य त्रिरात्राद्ध क्षयोऽल्पत्वं भवति, तस्यान्तेऽल्पवरूपेणानुबन्धे षोड़शरात्रपय्यन्तं तया सह मिथनीकृतस्य मैथुनमापनस्य रहोविसृष्टं षडूभ्यो रसेभ्यः प्रभवं चतुष्पाद वाय्वादिसक्रियचतुभूतात्मकसम्पूर्णमूर्तिमत् यत् सासु स्त्रीषु गर्भवमुपैति तत् किं स्यादिति प्रश्नः। यत् सर्वासु स्त्रीषु गर्भवमुपैतीत्युक्तमा ख्यापितम्, पितृयानेन प्रत्यागतवीजधातुदिष्टाधिष्ठितपडूधातुप्रभवचतुष्पाद्धातुविषयोऽयं प्रश्नः। न तु वीजधातुदिष्टानधिष्ठितपधातुप्रभवधातुविषयो यन्न गर्भखमापद्यते इति। नन्वतुल्यगोत्रस्येति
चक्रपाणिः-पूर्वाध्याये शरीरस्यादिसर्ग आध्यात्मिकनैष्ठिकमोक्षरूपचिकित्सायुक्त उक्तः, सम्प्रति गर्भादिसर्गमभिधातुमतुल्यगोत्रीयोऽभिधीयते । अतुल्यगोत्रस्येति स्त्रिया अतुल्यगोत्रस्य पुंसः। तुल्यगोत्रीयके हि मैथुनेऽधर्मो भवति धर्मशास्त्रेषु निषिद्धत्वात्। रजःक्षयान्ते इति रजःप्रवृत्त्यन्ते। 'अन्ते'-इतिपदेन रजःप्रवृत्त्यर्ह निषेधयति। रहोविसृष्टमिति विजने विसृष्टम् । शुक्रविसृष्टिश्च विजन एव प्रतिबन्धकलजाभावात् सम्यग् भवतीति 'रहः' इत्यनेन दर्शयति । मिथुनीकृतस्येत्यनेन सम्यङमैथुनप्रयोगं दर्शयति, विपरीतसुरतादींश्च निपधयति । चतुष्पात् षट
For Private and Personal Use Only