________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६४
चरक-संहिता। ! कतिधापुरुषीयं शारीरम्
तत्र श्लोकः। प्रश्नाः पुरुषमाश्रित्य त्रयोविंशतिरुत्तमाः। कतिधापुरुषीयेऽस्मिन् निर्णीतास्तत्त्वदर्शिना ॥ ५२ ॥ इत्यग्निवेशकूने तात्रे चरकप्रतिसंस्कृते शारीरस्थाने
कतिधापुरुषीयं शारीरं नाम प्रथमोऽध्यायः ॥ १॥ गङ्गाधरः--अध्यायार्थसंग्रहाथमाह- तत्र श्लोक इति। प्रश्ना इत्यादि । पुरुषमाश्रित्य पुरुषविषये त्रयोविंशतिरुत्तमाः प्रश्नास्वस्मिन् कतिधापुरुषीयेऽध्याये तत्त्वदर्शिनायेण पुनर्वसुना निर्णीता इति ॥५२॥
अध्यायञ्च समापयति-- अग्नीत्यादि । पूव्ववत् सर्व व्याख्यातमिति । इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ चतुर्थस्कन्धे शारीरस्थानजल्पे कतिधापुरुषीयशारीरनामप्रथमाध्याय
जल्पाखा प्रथमशाखा ॥१॥
चक्रपाणिः-'सर्वविद्' इत्यादिप्रश्नस्योत्तरम् -- अतःपरमित्यादि। ब्रह्ममूत इति प्रकृत्यादिरहितः। 'चिह्न यस्य न विद्यते' इत्यनेन मुक्तात्मनः प्राणापानाद्यात्मलिङ्गाभावाद्गमकं चिह्न नास्त्येवेति दर्शयति। न क्षरत्यन्गथात्वं न गच्छतीत्यक्षरम् । अविद्यमानं लक्षणं यस्येत्यलक्षणम् । एतस्यैव मोक्षस्येतरपुरुषाज्ञेयतां दर्शयति-ज्ञेयमित्यादि। ब्रह्मविदामेवात्र मनः प्रत्येति, नाज्ञानामहङ्कारादिगृहीतानामित्यर्थः। संग्रहो व्यक्तः ॥ ५११५२ ॥ इति चरकचतुराननश्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां
शारीरस्थाने कतिधापुरुषीयं शारीरं नाम प्रथमोऽध्यायः ॥ १॥
For Private and Personal Use Only