________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
१८६१ निष्क्रियस्य क्षेत्रशस्य गतेरसम्भवात् । ननु श्रूयते पञ्चविधा गतिरित्याशङ्कयाह । गतिश्रुतिरप्युपाधियोगादाकाशवत् ।०। यथा घटादुरपाधिमानाकाशश्वलति तथात्मनो गतिर्जीवोपाधियोगात्। तस्माद विपय्येयाद बन्ध इति निष्कर्षः । इति चतुर्विधबुद्धियोगात् पुरुषस्य बन्ध उक्त इति । नन्वेवं बद्धः पुरुषः कथं पुनःपुनर्जायते लोके मुखा च परलोकं गच्छति। तत्र कारणं वीजभूतं यत् तत् खलूक्तं प्रश्नोपनिषदि-संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणश्चोत्तरश्च । तद ये ह वै तदिष्टापूर्त कृतमित्युपासते। ते चान्द्रमसमेव लोकमभिजायन्ते त एव पुनरावत्तेन्ते । तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयियः पितृयानः इति । मुण्डकोपनिषदि च । प्लवा ह्येते अढ़ा यक्षरूपा अष्टादशाक्तमवरं येषु कम्मे। एतच्छे यो येऽभिनन्दन्ति मूढ़ा जरामृत्यु पुनरेवापि यन्ति । अविद्यायामन्तरे वत्तेमानाः स्वयंधीराः पण्डितम्मन्यमानाः। जन्यमाना परियन्ति मूढ़ा अन्धेनैव नीयमाना यथान्धाः । अविद्यायां बहुधा वत्तेमाना वयं कृतार्था इत्यभिनन्दन्ति बालाः। यत्कम्मिणो न प्रवेदयन्ति रागा तेनातुराः क्षीणलोकाश्चरन्ते। इष्टापूत्तं मन्यमाना वरिष्ठं नान्यच्छे यो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति । इति । छान्दोग्योपनिषदि च। स जातो यावदायुषं जीवति तं प्रतदिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः सम्भूतो भवति। तं प्रेतदिष्टं प्रेतस्य मृतस्य दिष्ट भाग्यं तं पुरुषं श्मशाने अग्नये दाहाथमेव बान्धवै वा यैरग्निभिर्दह्यमानं तेऽग्नय इतो हरन्ति। ततः प्रेतशरीरादह्यमानाद् दिष्ट भाग्यं भास्वरपुरुषरूपे उत्तिष्ठति । तदुक्तं वृहदारण्यके च। स जीवति यावज्जीवत्यथ यदा म्रियते। अथैनमग्नयो हरन्ति तस्याग्निरेवाग्निर्भवति। समित् समित् धूमो धूमोऽचिरञ्चिरङ्गारा अङ्गारा विस्फुलिङ्गा विस्फलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति, तस्या आहुत्याः पुरुषो भास्वरवर्णो भवति इति। स एव दिष्टपुरुषो धूमादिकमभिसम्भवंश्चान्द्रमसं लोकं प्रतिपद्यते । उक्तश्च गीतायाम् । धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतियोगी प्राप्य निवत्तते इति । अत्र योगी इष्टापू दिकर्मयोगीति । उक्तश्च च्छान्दोग्ये। अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति। धूमाद रात्रि रात्रेरपरपक्षमपरपक्षाद यान पडूदक्षिणैति मासांस्तान्नै ति संवत्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाचन्द्रमसमेप सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति । तस्मिन यावत् सम्पातमुषिवाऽथैतमेवाध्वान पुननिवत्तेन्ते यथैत
For Private and Personal Use Only