________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६२
चरक-संहिता। । कतिधापुरुषीयं शारीरम् माकाशमाकाशाद्वायु वायुभूखा धूमो भवति धूमो भूखादं भवति अभ्र भूला मेघो भवति मेघो भूखा प्रवति । त इह ब्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते। अतो वै खल्ल दुनिष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भ य एव भवति। तद् य इह रमणीयचरणा अभ्याशो ह यत् ते रमणीयां योनिमापदेवरन् ब्राह्मणयोनि वा क्षत्रिययोनि वा वैश्ययोनि वा। अथ य इह कपूयचरणा अभ्याशो ह यत् ते कपूयां योनिमापदारन् श्वयोनि शूकरयोनि वा चाण्डालयोनि वा। अर्थतयोः पथो न कतरेण च न। तानीमानि क्षुद्राण्यसकृदावर्तानि भूतानि भवन्ति जायस्व म्रियस्वेति । एतत् तृतीय स्थान तेनासौ लोके न सम्पूय्यते। तस्माज्जुगुप्सेति । तदेष श्लोको भवति । स्तेनो हिरण्यस्य सुरां पिबंश्च गुरोस्तल्पमावसन् ब्रह्महा चैते। पतन्ति चखारः पञ्चमश्वाचरंस्तैरिति।
ते धूममभिसम्भवन्तीति। तेषां पुण्यवताश्चापुष्यवताच मुखा स्वलॊकं वा नरकं वा गतानां चितानौ दाहतः शरीरादुत्थिता दिष्टपुरुषाः धूममभिसम्भवन्ति । इत्येवं चन्द्रलोकमभिसम्भवन्तो भवन्ति। सोमो राजा देवानामन्नम्। तस्मिन् यावत् सम्पातमिति। तस्मिंश्चन्द्रमण्डले स्वर्गनरकगतानां पुरुषाणां पुण्यपापफलभोगाद् यावत् पुनरिह सम्पातः स्यात् तावत् तत्रोषिवाऽथानन्तरमेतं पन्थानं निवर्तन्ते। यथा खल्वितो लोकाद गतस्तथैव क्रमेणागतः स्याचन्द्रलोकादाकाशमित्यादि। तद् यथोक्तं छान्दोग्ये वृहदारण्यके च। उद्दालकगौतमं प्रति प्रवाहणो जैवलिन म राजोवाच। असौ वाव दुलोको गौतमाग्निस्तस्यादित्य एव समित् रश्मयो धूमोऽहरचिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गास्तस्मिन्नेतस्मिन्ननौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति । पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समित् अभ्र धमो विदुादाच्चैरशनिरङ्गारा हादिन्यो विस्फुलिङ्गास्तस्मिन्नतस्मिन्ननौ देवाः सोमं राजानं जह्वति तस्या आहुतेर्ष सम्भवति । पृथिवी वाव गौतमाग्निस्तस्याः सम्बत्सर एव समित् आकाशो धूमो रात्रिरच्चेिर्दिशोऽङ्गारा अवान्तर्दिशो विस्फलिङ्गास्तस्मिन्नेतस्मिन्ननो देवा . वर्ष जुह्वति तस्या आहुतेरन्नं सम्भवति। पुरुषो वाव गौतमाग्निस्तस्य वागेव समित् प्राणो धूमो जिहार्चिश्चक्षुरङ्गाराः श्रोत्र विस्फुलिङ्गास्तस्मिन्नेतस्मिन्ननो देवा अन्नं जबति तस्या आहुते रेतः सम्भवति। योषा वाव गोतमाग्निस्तस्या उपस्थ एव समित् यदुपमत्रयते स धमो योनिरच्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा
For Private and Personal Use Only