SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः] शारीरस्थानम् । १८८७ बन्धः सम्भवति। अन्यधर्मत्वे कम्मणो दोषमाह-विचित्रभोगानुपपत्तिरन्यधम्मेवे ।। कर्मणोऽन्यधर्मले पुरुषस्य तत्कर्मजविचित्रभोगानुपपत्तिः स्यात् । विचित्रभोगो हि लोकेऽस्मिन्नमुष्मिंश्च नानाविधभोग इति । प्रकृतिनिबन्धनाच्चेन्न तस्या अपि पारतन्त्रम् । प्रकृतिनिबन्धनाच्चेत् पुरुषस्यात्मनो विचित्रभोगः स्यादिति चेन्न, यस्मात् तस्या अपि पारतन्त्रयम्। अचेतनखादस्वातन्त्रम्। पारतन्त्रं चेत् तदा कथं प्रकृतेः पुरुषेण योगः स्यादित्यत आह-न नित्यशुद्धबुद्धमुक्तस्वभावस्य तदयोगस्तदयोगाते । नित्यम् अविच्छेदेन शुद्धं निम्मेलखं बुद्धत्वं मुक्तखञ्च स्वभावो यस्य तस्य नित्यशुद्धबुद्धमुक्तस्वभावस्यात्मनश्चैतन्य हेतोः परमपुरुषस्य तदद्योगात् क्षेत्रशेन योगाहते क्षेत्रज्ञस्य प्रकृतियोगो न भवति। तहि किमविद्यया क्षेत्रशस्य बन्धः स्यादित्यत आह-नाविद्यातोऽप्यवस्तुना बन्धायोगात् ।। क्षेत्रज्ञस्यात्मनो नाविद्यया बन्धः स्यात् । कस्मात् ? अवस्तुना वस्तुनो बन्धस्यायोगात्। यथा शशविषाणेन वेधो न भवति। अविद्या ह्यवस्तु वस्तु चात्मेति । नन्वविद्या नावस्तु भवतीति चेत् तदाह-वस्तुत्वे सिद्धान्तहानिः ।।। अविद्याया वस्तुत्वे स्वीकृते त्रिगुणवैषमात्मिकायास्तस्याः कार्याणामहङ्कारादीनां सर्वेषां वस्तुत्वे नित्यखप्रसङ्गात् सर्वेषां जगतामनित्यवसिद्धान्तस्य हानिः स्यात् । तत्र क्षेत्रशवदविद्याया अपि नित्यवमनादिखमिति चेत्, तत्र दोषमाह-विजातीयद्वैतापत्तिश्च । अविद्याया वस्तुत्वे प्रकृतिवदन्यवस्तुत्वे विजातीयद्वतापत्तिः सजातीयद्वैतत्वन्तु न द्वैतत्वं स्यात्। तत्रापि। विरुद्धोभयरूपा चेत् ।। विरुद्धं सच्चासच तदुभयात्मिकैवैका विद्या भवतीति चेत्, न तावदपदार्थाप्रतीतेः ।। परस्परविरुद्धधर्मसदसदुभयात्मिका विद्या भवतीति चेन्न। कस्मात् ? तावत् अपदार्थाप्रतीतः। सदसदात्मिकायास्तस्याः कार्यस्य तावदपदार्थस्यासदंशीभूतस्याप्रतीतः। वस्तुभूतसदंशात्मकत्वेन प्रतीतेः सदात्मिकैवाविद्या। तहि चाविद्या न षट्सु पदार्थेषु कोऽपि पदार्थस्तत्राह-न वयं षटपदार्थवादिनो वैशेषिकादिवत् ।। न खलु पड़ेव पदार्था इति नियमः, षट्पदार्थादप्यतिरिक्तपदार्थदर्शनात् । षट् पदार्थाः प्रमेयाणि तेभ्योऽतिरिक्तं प्रमेयमप्यस्ति । तस्माद अविद्या नापदार्थो न चावस्तु । न च षट्सु पदार्थेषु किमपि । तस्मान्न पदार्थप्रतीतिः पदार्थवादविद्यायाः। तहि द्रव्यगुणादिपदार्थानियमे किमयौक्तिकं यत् तत् पदार्थवेन संगृह्यत इत्यत आह-अनियमवेऽपि नायौक्तिकस्य संग्रहो. ऽन्यथा बालोन्मत्तादिसमखम् ।। द्रव्यगुणकर्मादिपदार्थनियमाभावादपि न For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy