________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८८
चरक-संहिता। कतिधापुरुषीयं शारीरम् खलु युक्त्यसिद्धं स्वेच्छया यत् तत् किमपि संगृह्यते। परन्तु यौक्तिकस्य पदार्थस्य संग्रहः क्रियते । न तु अस्ति खपुष्पमस्ति शशविषाणमित्येवमलोकस्य संग्रहः क्रियते। अन्यथा यदि यौक्तिकस्य संग्रहमात्रं न कृखा यौक्तिकायौक्तिकस्य संग्रहः क्रियते, तदा बालोन्मत्तादीनां खपुष्पशशविषाणादिवचनसमं यथा तथोक्तिकरणं स्यात् ।
ननु पुरुषस्यानादिकाय्यभूतविषयवासनोपरागाद् बन्धः स्यादित्याशङ्कायामाह-नाऽनादिविषयोपरागनिमित्तकोऽप्यस्य ।। अस्य खलु क्षेत्रज्ञस्य पुरुषस्य अनादिना प्रवाहरूपेण कार्यभूतेन विषयेण भोग्येनोपरागनिमित्तकोऽपि बन्धो न भवति। यथा जवादिकुसुमादुरपरागेण स्फटिकादिषु रक्ततादिरिति । कस्मात् ? न वाह्याभ्यन्तरयोरुपरज्योपरञ्जकभावोऽपि देशव्यवधानात् श्रुघ्नपाटलिपुत्रस्थयोरिव ।। वाह्यानां सदसद्भावानामिन्द्रियविषयाणां तृष्णाजनकानामाभ्यन्तरस्य क्षेत्रज्ञस्य देशव्यवधानात् महदहङ्कारमनोमनोमयप्राणप्राणमयान्नमयैर्देशैर्व्यवधानादुपरज्योपरञ्जकभावो न सम्भवति यथा श्रुघ्नपाटलिपुत्रयोबहुदेशव्यवधानान्नोपरज्योपरञ्जकता सम्भवति। नन्वस्ति सानित्यं विषयात्मनोर्यथेन्द्रियाणामन्त शरीरस्थानां वाहेष्वर्थेषु सान्निध्याद ग्रहणं भवतीत्याशङ्कायामाह-द्वयोरेकदेशलब्धोपरागान्न व्यवस्था ।। यदिन्द्रियाणामर्थषु सन्निकर्षवदात्मनो वाहेषु विषयेषु सन्निकर्षाद विषयोपरागेणात्मनो बन्ध उच्यते, तदात्मन एकदशेनैव बन्धः स्यादेकदेशेन मुक्त एव वत्तते इत्येकदेशलब्धोपरागाद्वयोबन्धमोक्षयोयोगपदं भवतीत्यतो व्यवस्था न भवति ।
ननु तहि चादृष्टवशाद् बन्धः स्यादित्याशङ्कते। अदृष्टवशाच्चेत् । पुरुषबन्धः स्यादित्युच्यते तदा। न द्वयोरेककालायोगादुपकाय्योपकारकभावः। आत्मा क्षेत्रको यदि खदृष्टवशाबद्ध एतदराशिपुरुषरूपेण जायते, तदा तयोद्वयोरात्माऽदृष्टयोरेककालयोगाभावादुपकाय्र्योपकारकभावो न स्यात् न होककालमात्मा चादृष्टश्च वत्तेते। पूर्व यदि नात्माऽवर्तिष्यन्न तदात्मा नित्योऽभविष्यत् । अदृष्टन्वात्मना बद्धन राशिपुरुषरूपेण भूखा कृतस्य वैधावैधकर्मणः फलं धर्माधर्ममुच्यते। तस्यादृष्टस्य चात्मबन्धे तु नास्त्युपकारकता। तत्राशङ्कते। पुत्रकम्मैवत् इति चेत् । पुत्रेणोपकार्य तस्य पुत्रस्य संस्कारकम्म। पुत्रस्य तदधिकरणखात्। पुत्रो हि संस्कायस्तं पुनः संस्कार उपकुरुते। वीजगर्भादिदोषापनयादिति पुत्रकर्मणोरुपकार्योपकारकभाववदात्मादृष्टयोजनकजातयोरुपकायोपकारकखमरत्येवेति चेत् । नास्ति हि तत्र
For Private and Personal Use Only