SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८८६ चरक-संहिता। कतिधापुरुषीयं शारीरम् अभूत् तस्य मोक्षसाधनोपदेशो न विधीयते कैरप्याचार्यः। स्वभावस्यानपायिखात्। अत्राह वादी। स्वभावस्यानपायिवादननुष्ठानमप्रामाण्यम् ।। स्वभावस्य अपायशीलखाभावात् स्वभावतो बद्धस्य मोक्षार्थमनुष्ठानाविधानमप्रामाण्यं न प्रमाणसिद्धमपि खनुष्ठानोपदेशः कर्त्तव्य इति । तत्रोत्तरमाह । नाशक्योपदेशविधिरुपदिष्टेऽप्यनुपदेशः।। अशक्ये शत्यसाध्ये फले साधनार्थमुपदेशकरणं न युज्यते। कस्मात् ? यत उपदिष्टेऽप्यनुपदेशः। अशक्यफलसाधनोपाये तूपदिष्टेऽप्यनुपदेशो भवति साधने शक्त्यभावादिति । अत्राशङ्कते-शुक्लपटवदवीजवच्चेति । यथा स्वभावसिद्धस्य पटानां शुक्लस्य रागविधानादपायः स्याद यथा वीजानामङ्क रकारिखस्वभावस्याग्निदाहादिनापायः स्यात् तथा स्वभावतो बद्धस्य क्षेत्रज्ञस्य प्रधानेन बद्धस्य बन्धापाये वन्धापाय इति चेत्, तत्राहशक्त्युभवानुभवाभ्यां नाशक्योपदेशः ।। स्वभावस्यापायहेतुभूतकम्मसाधने शक्तिरुदभवति वा नोद्भवति इति अशक्ये साधनोपदेशो न क्रियते। ननु. तहि किं क्षेत्रशस्यात्मनः प्रधानेन बन्धः कालतः स्यादित्यत आह-न कालयोगतो व्यापिनो नित्यस्य सर्वसम्बन्धात् ।। प्रधानानुपविष्टस्याव्यक्ताख्यस्यात्मनो न कालयोगतो बन्धः स्यात्। कस्मात् ? व्यापिनो नित्यस्य कालस्य सर्वसम्बन्धात्। तर्हि किं देशयोगतो बन्ध इत्यत आह-न देशतोऽप्यस्मात् ।। देशयोगतोऽपि न पुरुषबन्धः । कस्मात् ? अस्मात् व्यापिनो नित्यस्य देशस्य सर्वसम्बन्धात्। न हि दृश्यन्ते खादयो देशेन बद्धाः। तर्हि किमवस्थातो बन्धः स्यादित्यत आह । नावस्थातो देहधर्मवात् तस्याः ।। याद्रूप्येण यदा वर्तते ताद्रूप्येण वृत्तिरवस्था। तयोगतो न पुरुषबन्धः स्यात् । कस्मात् ? देहधर्मखात् तस्याः। तस्या अवस्थाया देहधर्मवात् पुरुषस्य बन्धायोग्यखात्। ननु शरीरविशेषेणात्मनो विशेषोपलब्धिरतः कथं देहधर्मणावस्थया न पुरुषबन्धः स्यादित्यत आह-असङ्गोऽयं पुरुष इति ।। आकाशवदतिविशदखादसङ्गोऽयं पुरुषो भौतिकशरीरीयावस्थया बद्ध न शक्यते, तहि किं कर्मणा पुरुषो बध्यत इत्यत आह–न कम्मेणाऽन्यधम्मवादतिप्रसक्तेश्च ।। पुरुषस्य बन्धो न कृतेन शुभाशुभकर्मफलेन भवति कर्मणोऽन्यधर्मवादात्मनोऽन्यस्य भूतात्मनो धर्म वाङ्मनःशरीरकृतकम्मफलं कर्म । तच्छरीरगतत्वेनात्मनो यदन्यधर्मेण कर्मणा बन्धः स्यात् तदाऽतिप्रसङ्गः स्यात् सर्वस्य सर्वधर्मेण For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy