SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म : ध्यायः शारीरस्थानम् । १८८५ अविद्याक्रमादनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिः। अस्मिता खात्मनात्मनोरेकताप्रत्ययः। स च शरीराद्यतिरिक्त आत्मा नास्तीत्येवं रूपम् । तेनानात्मन्यात्मख्यातिरविद्याऽस्मितातः पृथगेव नास्तिक्यज्ञानरूपा ह्यस्मिता रागोऽनुरञ्जनव्यापारः। स चेच्छाहेतुः। द्वेषस्त द्विपर्ययः । अभिनिवेशो मरणादित्रासः। इति । रूपैः सप्तभिरामानं वनाति प्रधान कोषकारवद्विमोचयत्येकरूपेण। ज्ञानेश्वर्यवैराग्यधर्माशानानैश्वर्यावैराग्याधर्माणीत्यष्टौ प्रधानस्य रूपाणि प्रसिद्धानि। तत् तु प्रधानं स्वभावानियत्या यदृच्छया चैव सर्गादौ परमात्मन्यनुप्रविष्ट क्षेत्रमाश्रित्य वत्तते । तथा वत्तेमानं स्वभावादिभिरेव कालतोऽभिव्यक्तसत्त्वादित्रिगुणलक्षणमव्यक्तं नाम भवति । तत्क्षेत्रज्ञानुपविष्टसमत्रिगुणलक्षणमव्यक्तं प्रथमं प्रकृतिबद्ध आत्मा क्षेत्रज्ञः । स पुनर्यनात्मानं मनुते स महान मति विद्या बुद्धिमेनः क्षेत्रज्ञस्येति स जीवो नामात्मा तेन विशिष्टमव्यक्तं प्राज्ञो नामात्मेति क्षेत्रस्य द्वितीयो बन्धो महता स च प्राश-स्तया बुद्धग्राह मिति मन्यते तयाहम्मत्या विशिष्टः स आत्मा धीधृतिस्मृत्यहङ्कारलिङ्गः स्यात् । इत्यहङ्कारबन्धस्तृतीयः पुनरहङ्कारादुत्पन्नः पञ्चभिर्महाभूतैः क्रमेणास्य बन्धो भवति। एवं महदादिभिः सप्तभी रूपैः प्रधानं क्षेत्रमात्मानं बनाति कोषकारकीटवत् । स पुनराहकारिकैदेशभिरिन्द्रियैमनसा स्थूलभूतैश्च बध्यत इति । एवम्भूतस्य वृहतो लोकस्य पुरुषस्य यद्यणोरणीयोरूपो नारायणेन ब्रह्मणा सूक्ष्मदेहसगे संयोज्यते तदा स क्षेत्रज्ञः सूक्ष्मदेही निविशेषः स चतुयौनिज एषोऽमुकोऽहमसावहमित्येवमभिमन्यते बध्यते च सप्तभिरैश्वर्यादिभिर्महतो रूपैरहङ्कारोऽभिमन्ता चेश्वरश्चेति धीधृतिस्मृतिभ्रंशरूपा बुद्धिरैश्वादिसप्तविधा सत्यविद्यादिपञ्चधैकजीवोपाधिमत आत्मनः क्षेत्रस्य लिङ्गमिति, तत्र रागादिभिः क्रिया वेदोक्ता वाङ्मनःशरीरैः खल्वारभ्यते सम्यगसम्यक् च तत्सम्यगसम्यगारम्भाद धर्माधर्माभ्यां पुनःपुनः कोषकारवनिजकृतेन सूत्रेण वध्यते इति । बद्धश्चानित्यसुखदुःखात्मकवेदनां भुङ्क्ते । यदा सम्यग्बुद्धया वाङ्मनःशरीरधावैधकर्माणि द्वेषान्नारभ्यन्ते तदा सर्चकर्मानारम्भादात्मानं वद्धं क्षेत्र समबुद्धिरूपं प्रधानं विमोचयतीति अनारम्भादस योगात् तं दुःखं नोपतिष्ठत इति । नन्वेवं यद् बध्यते क्षेत्रशस्तदबन्धनं स्वभावादेव भवति क्रमेण प्रधानाव्यक्तमहदहकारादिष्वनुप्रवेशो नाशानादिति चेत् तत्राह । न स्वभावतो बद्धस्य मोक्षसाधनोपदेशविधिः ।। स्वभावतो बद्धः सन् क्षेत्रको भूला प्रधानेन बद्धो यदव्यक्तमनुमविश्यानन्दमय आत्मा For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy