________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८४
चरक-संहिता। कतिधापुरुषीयं शारीरम् सवकल्याणहेतुखात् पाशच्छ दफ्टीयसी। सव्वेः सर्वग इत्यादि शिवस्य गुणचिन्तनम्। रूपोपादानचिन्ता वा मानस भजनं विदः। वाचिकं भजनं धीराः प्रणवादिजपं विदः। वाचिकं भजनं सद्भिः प्राणायामादि कथ्यते। धर्माधर्मामयैः पाशैबद्धानां देहिनामयम्। मोचकः 'शिव एवैको भगवान् परमेश्वरः। चतुर्विंशतितत्त्वानि मायाकम्मगुणा इति । विषया इति कीत्यन्ते पाशा जीवनिबन्धनाः। तैर्बद्धाः शिवभक्ताव मुच्यन्ते सर्वदेहिनः । पश्चक्लेशमयैः पाशैः पशून् बनाति शङ्करः। स एव मोचकस्तेषां सम्यग् भक्तया हरपासितः। अविद्यामस्मितां रागं द्वपञ्च द्विपदां वराः। वदन्त्यभिनिवेशश्च क्लेशान् पाशवमागतान्। तमो मोहो महामोहरतामिस्त्र इति पण्डिताः। अन्धतामिस्रमित्याहुरविद्यां पञ्चधा स्थिताम् । तान् जीवान् मुनिशा लाः सव्वांश्चैवापि विद्यया। शिवो मोचयति श्रेयान् नान्यः कोऽपीह मोचकः। अविद्यां तम इत्याहुरस्मितां मोहमित्यपि। महामोहमिति प्राहू रागं योगपरायणाः। द्वेषं तामिस्रमित्याहुरन्धतामिस्रमित्यपि। तथैवाभिनिवेशश्च मिथ्याज्ञानं विवेकिनः। तमसोऽष्टविधा भेदा मोहस्याष्टविधाः स्मृताः। महामोहप्रभेदाश्च बुधैर्देश विचिन्तिताः। अष्टादशविधं प्रास्तामिस्रञ्च विचक्षणाः। अन्धतामिस्रभेदाश्च तथाष्टादशधा स्मृताः । अविद्यया न सम्बन्धो शानदातुः शिवस्य च। सर्वशस्य तु मोहेन नातीतो नाप्यनागतः। भवेद्रागेण देवस्य शम्भोरङ्गजशासिनः। कालेषु त्रिषु सम्बन्धस्तस्य द्वेषेण न भवेत् । मायातीतस्य देवस्य स्थाणोः पशुपतेविभोः। तथैवाभिनिवेशेन सम्बन्धो न कदाचन। शङ्करस्य शरण्यस्य शिवस्य परमात्मनः। कुशलाकुशलैस्तस्य सम्बन्धो नैव कम्मेभिः” इत्यादि। एतदुपदेशेन प्रथमं परमात्मा शिवश्चित् सम्प्रसादं क्षेत्रमात्मानं मायया बधाति ततो ज्ञानविपर्ययैः पञ्चभिरविद्यादिभिबैधाति न तु स्वभावधर्माधर्मादिभिः। अविद्याद्यज्ञानेन बद्धस्तु कर्माणि कुर्चस्तत्फलेन धर्माधर्मेण पुनर्बध्यते। तदुक्तं साङ्केत्र-"ज्ञानान्मुक्तिः बन्धो विपर्ययादः।” विपर्ययाद बन्ध इति ज्ञानविपर्ययादज्ञानात् क्षेत्रशस्यात्मनो बन्धः खभोग्यदुःखहेतुमनःशरीरसंयोगः स्यात् ।
ननु कतिविधो शानविपर्यय इत्यत आह । विपर्ययभेदाः पञ्च । क्षेत्रशस्य पुरुषस्यात्मनो मनःशरीराभ्यां बन्धस्य स्वभोग्य वेदनाहेतोः संयोगस्य कारणं यज्ज्ञान विपर्ययमज्ञानं तस्य भेदाः प्रकाराः पञ्च भवन्ति । ते योगशासने पातञ्जले प्रोक्ताः। तद् यथा-अविद्याऽस्मितारागद्वेषाभिनिवेशाः । तत्र
For Private and Personal Use Only