________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४८ चरक-संहिता।
ज्वरनिदानम् दाहः शीताभिप्रायता निदानोक्तानुपश्यो विपरीतोपशयश्चेति पित्तज्वरलिङ्गानि भवन्ति ॥ १३ ॥
स्निग्ध-गुरु-मधुर-पिच्छिल-शीताम्ल-लवण-दिवास्वप्नहर्षाव्यायामेभ्योऽतिसेवितेभ्यः श्लेष्मा प्रकोपमापद्यते। स यदा प्रकुपितः प्रविश्यामाशयमुष्मणा सह मिश्रीभूय आयमाहारपरिणामधात रसनामानमन्यवेत्य रसस्वेदवहानि स्रोतांसि पिधायाग्निमुपहत्य पक्तिस्थानात् उष्माणं वहिनिरस्य प्रपीड़यन् केवलं शरीरमनुप्रपद्यते, तदा ज्वरमभिनिवर्त्तयति । तस्येमानि लिङ्गानि भवन्ति । तद् यथा—युगपदेव केवले शरीरे ज्वरस्याभ्यागमनमभिवृद्धिर्वा । भुक्तमात्र पूर्वाह्न पूर्वरात्र वसन्तकाले वा विशेषेण । गुरुगात्रत्वम् अनन्नाभिलाषः श्लेष्मप्रसेको मुखमाधुयं हृल्लासो हृदयोपलेपः स्तिमितत्वं कारः शोफः। हरितहारिद्रलं हरितत्वं, पलाशपुष्पवणेवं हारिद्रत्वं हरिद्रावणेवं व्यस्तत्वेनेह बोध्यं युगपदसम्भवात् । उष्मणो देहे वहिरूष्मणोऽत्यर्थं तीवभावः। शेषं सुगमम् ॥१३॥ ___ गङ्गाधरः-क्रमिकखात् कफज्वरनिदानादीन्याह-स्निग्धेत्यादि । लवणान्ता आहाराः । स्वमाद्या विहाराः। हषों मनःप्रहादो न तु मैथुनम् । स यदेत्यादिना श्लेष्मज्वरसम्माप्तिः। स इति श्लेष्मा। प्रकुपित इति उक्तस्निग्धादिनिदानान्यतमैकानेकातिसेवनेन यदयदंशेन वृद्धस्तत्तदंशतो वृद्ध इत्यर्थः। एवं सर्वत्र व्याख्यातव्यम् । शेषं पूर्ववद् व्याख्येयम् । श्लेष्मज्वरलिङ्गान्याह-तद् यथेत्यादि। युगपदेवेत्यादि पूर्ववत् व्याख्यातव्यम् । हल्लासो हृदयस्थ
चक्रपाणिः---स्निग्धेत्यादिना श्लेष्मज्वरमाह-स यदेत्यादि पूर्ववत् कफज्वरेऽपि व्याख्येयम् ; ननु श्लेष्मण आमाशयः स्थानम् , तत् किं प्रविश्यामाशयमिति वचनेन ? देवम् , इलेपण उरोऽपि प्रधानं स्थानम् ; तेन इहोर स्थस्यापि श्लेष्मण आमाशयप्रवेशं दर्शयति ; यत् तु केवलामाशयस्थितं पित्तम् , तत्र 'आमाशयं प्रविश्य' इति न कृतम् किन्तु, 'आमाशयादुष्माणमुत्सृज्य' इति कृतम् ; पित्तं हामाशयप्रविषमेव भवति ; तचामाशयैकदेशस्थं प्रहरुपामारापैकश वहिस्थानं स्वस्थानाद गच्छत्तीति शुकम्। युगपदित्येककालम् , एकच
For Private and Personal Use Only