________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः । निदानस्थानम्।
१२४७ स्वेदः प्रलापो रक्तकोठाभिनिव्वत्तिः शरीरे। हरितहारिद्रत्वं नख-नयनवदनमूत्रपुरीषत्वचामत्यर्थमुष्मणस्तीव्रभावोऽतिमात्र सद्रव विट्प्रवृत्तिने खतीसाररोगः, तस्य ज्वरोपद्रवखेनोक्तखात्। केचित् तु यदा सद्रवप्रतिस्तदा पित्तज्वर एव यदा तूपद्रववेनातिसाररोगस्तदा ज्वरातिसार इतीच्छन्ति । वस्तुतस्तु द्रवपुरोपसमिति नोक्खातिसार इति वचनेन द्रवातिसरणं वातादिज्वरापेक्षया स्यात् तथा रसधातोरतिवृद्धले पित्तदृषितवे च यस्मिन् पित्तज्वरे पित्तस्येव वह्निदूषकलं पुरीपमिश्रता च स्यात् तस्मिन् पित्तज्वरे खतीसारो भवति, अतिसारज्वरयोस्तुल्यसम्प्राप्तिकखात् इत्युभयरूपलं ख्यापितमिति । केचित् तु अस्यामेवावस्थायां ज्वरो ज्वरातिसार इत्याहुस्तद् यथा पित्तज्वरे पित्तभवोऽतिसारः तथातिसारे यदि वा ज्वरः स्यात्। दोषस्य दृष्यस्य समानभावात् ज्वरातिसारः कथितो भिषगभिरिति। अत्र तथातिसारे पित्तजातिसारे इत्यर्थः। अन्ये तु वातातिसारेऽपि वातादेरामाशयगमनम् अबधातुविशेषरसधातुदूषणञ्चेति ज्वरस्य दोषदृष्यसामान्याद् यदि वातातिसारेऽपि ज्वरः स्यात् तदा सोऽपि ज्वरातिसार उच्यते, तेन ज्वरातिसारे भेषजविधानं पृथगिष्यते यतो ज्वरनं प्रायशो भेदि, अतिसारघ्नन्तु स्तम्भि। तच प्रत्येकं न युज्यते इत्याहुः। तच्च न चरकसुश्रुताद्यभिमतं युक्त्या ज्वरोक्तातिसारोक्तभेषजयोमिश्रेण भेषजकल्पनया सिद्धः, क्रियासामान्यश्च युक्त्याभिसन्याय प्रयोक्तुमर्हति। वह्निवर्द्धनपाचनादिकं हि लङ्घनादिकं ज्वरे चाति. सारे च युक्तं दृश्यते इति ज्वरातिसारः पृथङ् नोक्त इति । उपद्रवाणाञ्च स्वखचिकित्सा विहिता, अन्यथा तत्तदुपद्रववतां प्रत्येकं चिकित्साविशेषस्य वाच्यखापत्तिः स्यात् । न चातिसारज्वरयोविरुद्धोपक्रमोऽस्ति तावानेव, लङ्घनादिसमोपक्रमदर्शनात । अनद्वेषोऽरुचिः, सदनमङ्गानाम । स्वेदो घम्म प्रवृत्तिः, सव्वंज्वरे प्रायशो घम्मेनिरोधेऽपि पैत्तिकादिज्वरे पित्तस्य तैक्ष्णात् ज्वरप्रभावाद्वा घर्मनिरोधो न स्यात् । प्रलापोऽसम्बन्धवचनं वातकाय्येवत् पित्तकार्यश्च । रक्तकोठाभिनि त्तिरिति ज्वरप्रभावात् पित्तातिशयकोपाद्वा रक्तस्य दुष्टया रक्तवर्णकोठः स्यात्, कोठस्तु वरटीदष्टदेहप्रदेशे इव क्षणिकोत्पत्तिविनाशी मण्डला. युगपदेवेति न वैषम्येण ; अभ्यागमनमभिवृद्धिति च पूर्वेण, युगपदेवेत्यादिना परेण च विशेषेणेत्यन्तेन च ग्रन्थेन सम्बध्यते ; कोठाभिनिर्च त्तिः शरीर इति च्छेदः ॥ १३ ॥
For Private and Personal Use Only