SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४६ चरक संहिता | ज्वरनिदानम् I अभिवृद्धिर्वा, भुक्तस्य विदाहकाले मध्यन्दिनेऽवरात्र शरदि वा विशेषेण, कटुकास्यता, घ्राणमुखकण्ठौष्ठतालुपाकस्तृष्णा मदो भ्रमो मूर्च्छा पित्तच्छद्दनम् अतीसारोऽन्नद्वेषः सदनं प्रकोप इति द्वयम् । वाशब्देनाभिवृद्धिश्च ज्वरस्य विदाहकाले पच्यमानकाले । मध्यन्दिने त्रिभागीकृत दिनस्य मध्यभागे, एवमर्द्धरात्रेऽपि बोध्यम् । एवं दिवसान्तादिव्यख्यातः । वाशब्देनानियतत्वं ख्यापितम् । विशेषेण कटुकास्यता तिक्तास्यता । महारोगाध्याये हि पित्तनानात्मजेषु तिक्तास्यत्वमुक्तम् अन्ये तु कटुः स्यात् कटुतिक्तयोरिति स्मृत्या तथा योऽम्लं भृशोष्णं कटतिक्तवक्रः पीतं सरक्तं हरितं वमेद्वा । सदाहचोपज्वरवऋशोषं सा पित्तकोपप्रभवा हि छदिः । इति सुश्रुतवचनाच्च कटुतिक्तान्यतरास्यत्वमिच्छन्ति, दृश्यते हि तिक्तास्यत्व - मेव ज्वरे इति । घ्राणादीनां पाकः क्षतः पिडकाभिनिर्ऋत्तिः । मदो मत्तखमिव, पूगधुस्तूरादिभक्षणे यादृशखं तदिव । भ्रमश्चक्रस्थितस्येव भ्रमणशीलवस्तुदर्शनमिव स्वदेहभ्रमणज्ञानञ्च । यद्यपि महारोगाध्याये वातजाशीतिविकारेषु भ्रमोऽभिहितस्तथापि रजः पित्तानिलाद् भ्रम इति वचनात् वातजववत् पित्तजखमपि भ्रमस्य ख्यापनार्थमिदं वचनं वातज्वरेऽपि भ्रमस्योक्तवात् । अन्ये तु न रोगोऽप्येकदोषज इति वचनात् पैत्तिकेऽपि वातानुबन्धाद् भ्रम इत्याहुः, तन्न, सर्वेषां प्र रकत्वेऽपि वायोने पैत्तिके ज्वरे आरम्भकत्वम्, न हि स्वनिदानकुपितस्तत्र वायुः किन्तु एकः प्रकुपितो दोषः सर्व्वानेव प्रकोपयेदिति वचनात् प्ररेकत्वशक्तिमात्रेणैव वायोः कोपो न तु रुक्षत्वादिधर्मेण । तथा हि वातपित्तजत्वव्यपदेशापत्तिरन्यतरलक्षणापत्तिश्च । परे तु दोषदृष्यसंयोगप्रभावात् कारणदृष्टस्यापि कार्य्यखेन सम्भवो यथा हरिद्राचर्ण संयोगाद्रक्तत्वमरुणत्वञ्च नीरूपत्वेऽपि वातातिसारे पुरीषस्य इत्याहुस्तदपि न मनोरमं तथाविधरूपान्तरापत्तेः । केचित्तु पित्तदूषितनेत्रत्वेन शङ्खः पीत इति ज्ञानवभ्रमज्ञानमाहुः । मूर्च्छान्धिकारप्रवेश इव ज्ञानम् । पित्तच्छदेनमिति कफं विना केवल पित्तवान्तिः । अतीसार इति पित्तस्य सरत्वेन ; वक्ष्यति हि ग्रहण्यध्याये - “आप्लावयद्धन्त्यनलं जलं तप्तमिवानलम् इति वहिः प्रपीडयदितिवचनेन पित्तज्वरे वातज्वर इव न सहसा वह्निक्षेपणं भवति, किन्तु शनैः स्तोकक्रमेणेति दर्शयति । * तृष्णेत्यत्र उष्मेति पाठान्तरम् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy