________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१ अध्यायः
निदानस्थानम् ।
१२४५
तथा
रसनामानम्
उष्णाम्ल लवण-क्ष|रकटुकाजीर्णभोजनेभ्यो ऽतिसेवितेभ्यः तीच्णात पाग्निसन्तापश्रमको विषमाहारेभ्यश्च पित्तं प्रकोपमापचते । तद् यदा प्रकुपितमामाशयं प्रविशत् एवो मानुपसजद यमाहारपरिणामधातु अन्नवेल रसस्वेदवहानि स्रोतांसि पिधाय द्रवत्वादग्निमुपहत्य पक्तिस्थानादुष्प्राणं वहिर्निरस्य प्रपीडयत् केवलं शरीरमनुप्रपद्यते, तदा ज्वरमभिनिव्र्वर्त्तयति । तस्येमानि लिङ्गानि भवन्ति । त यथा - युगपदेव केवले शरीरे ज्वरस्याभ्यागमनम् गुरूष्णादयस्वरुपशयः सुखानुबन्ध इत्यनुपश्योपशययोर्वातज्वरस्य वृद्धिहासकरवेन दृद्धिहासाभ्यामुपलब्धिहेतुखेन निदानेऽनुपशयस्यान्तर्भावे पृथक् चोपशयस्योपादानमिति ताभ्यां वृद्धिहासे च व्याधिं वातजत्वादिरूपेण ज्ञापयत इति दृद्धिहासयोलिङ्गत्वेनंदं वचनं न त्वनुपशयोपशययोरिति । इति वातज्वरलिङ्गानि स्युरिमानीत्यर्थः ॥ ११।१२ ॥
1
तत्र
गङ्गाधरः- क्रमिकत्वात् पित्तज्वरनिदानादीन्याह- उष्णेत्यादि । कटुकान्ता आहाराः । अजीर्णे सति भोजनम् । तीक्ष्णादीन्यद्रव्याणि । विषमाहारस्तु उष्णलवणादिद्रव्यव्यतिरेकेणापि पित्तं कोपयतीति ख्यापनार्थ पृथकपदं कृतम् । तद् यदेति पित्तज्वरसम्प्राप्तिः । तत् पित्तं प्रकुपितमित्यादि पूर्व्ववद व्याख्येयम् । पित्तस्य तेजसस्याग्न्युपहन्तृत्वाभावाशङ्कानिरासायोक्तं द्रवत्वादिति । द्रवतैजसेनाद्रवतजसोपघातः सम्भवतीति बोध्यम् । युगपदेवेत्यादिना पित्तज्वरलिङ्गानि । केवले कृत्स्ने शरीरे युगपदेव ज्वरस्याभ्यागमनमुत्पत्तिरभिवृद्धिः बोद्धव्या; उष्णाभिप्रायता उष्णप्रियता । निदानोक्तानामनुपशय इति वचनेनैव विपरीत उपशयोऽर्थोऽपि स्पार्थं मुच्यते ; किंवा अर्थापत्तेरनैकान्तिकत्वेन उच्यते ; यथा, - नवज्वरे दिवास्वप्ने प्रतिषिद्धेऽर्थापत्त्या पुरराणज्वरे दिवास्वप्नं प्राप्नोति, अथच तत्र दिवास्वप्नो न विहित इति अर्थापत्तेरनैकान्तिकत्वमस्ति निदानोक्तानामित्यत्र 'उक्त ' ग्रहणाद्, यदेव निदानत्वेनोक्तम् तस्यैवानुपशयित्वं दर्शितं न पुनर्यस्यापाततो निदानत्वं प्रतिभाति तेन मदात्ययादौ मद्यादेर्निदानत्वेन प्रतीयमानस्यापि उपशयित्वमेव ॥ १११२ ॥
1
5
;
चक्रपाणिः - उष्णेत्यादिना पित्तज्वरमाह - तद्यदेत्यादि पूर्ववद् व्याख्येयम्; द्रवत्वाद अग्निमुपहत्येतिवचनादुष्णस्यापि पित्तस्य द्रवत्वेनाग्निविपरीतेन गुणेनाग्निहन्तृतां दशयति ;
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only