________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ]
निदानस्थानम् ।
१२४६
निता निद्राधिक्यं स्तम्भस्तन्द्रा कासः श्वासः प्रतिश्यायः शैत्यं श्वैत्यञ्च नखनयनवदन मूत्रपुरीषत्वचा मत्यर्थञ्च शीतपिड़का भृशमङ्गेभ्य उत्तिष्ठन्ति, उष्णाभिप्रायता निदानोक्तानुपशयो विपरीतोपशयश्चेति श्लेष्मज्वर लिङ्गानि भवन्ति ॥ १४ ॥
विषमाशनादनशनादन्नस्यापरिवर्त्तादृतुव्यापत्तेः सात्म्यकफस्योपस्थितवमनमिव । हृदयोपलेपः अन्तवक्षःस्थश्लेष्मणान्तर्वक्षसि उपलेपः । स्तिमितत्वमाद्रवसना वगुण्ठितत्वमिव मन्यते गात्रम् । छद्दिः कफस्य, मृदनिता वातादिज्वरापेक्षयाऽधिकमन्दाग्निता सव्वेज्वरेऽपि वह्निमान्दत्रात् । निद्राधिक्यं वातज्वरे निद्रानाशः पित्तज्वरेऽल्पनिद्रा कफज्वरेऽस्मिन्नधिकनिद्रेति बोध्यम् । स्तम्भः शरीरस्य पुरीषस्य च । तन्द्रा निद्रावदद्धोन्मीलितनेत्रत्वं मे रकवायोनेत्रस्थानगतत्वात् । कासः सश्लेष्मा । प्रतिश्यायो नासा - स्रावः । शैत्यं शीतत्वम् । श्वैत्यं श्वेतवर्णत्वञ्च नखादीनामत्यर्थमन्यत्र तु न तथा । शीतपिकाः शीतमारुतादिसम्भवकोवच्छोफा उदर्द इत्याख्याः भृशमत्यर्थ - मुत्तिष्ठन्त्यङ्गेभ्य इति । शेषं पूव्वत् ॥ १४ ॥
गङ्गाधरः - क्रमिकत्वाद् वातपित्तादिद्वन्द्वसन्निपातानां निदानादीन्याहविषमेत्यादि । विषमाशनं वातादिकोपनमनशनं वार्तपित्तकोपनम् अन्नपरिवत्र्त्त इहान्नपरिणामः स च पित्तकोपन इव वातकोपनश्च, उक्तं हि भुक्तं जीय्येति भोजने चेत्यादि । ऋतुव्यापत्तिः ऋत्वयोगातियो गमिथ्यायोगाः त्रिदोषकफज्वरे सर्व्वशरीरव्याप्त्या आगमनमभिवृद्धिवा भवतीति दर्शयति । शीतपिकास्तन्त्रान्तरे श्वेतपिका उच्यन्ते; 'तस्येमानि लिङ्गानि भवन्ति' इत्येतावतैव कफज्वरलिङ्गत्वे लब्धे पुनः 'इलेष्मज्वरलिङ्गानि भवन्ति' इतिवचनं किमर्थम् ? ब्र ूमः - 'तस्य' इतिपदेन स्वदोषमात्रप्रत्यवमर्षोऽपि स्यात् ; तेन दोषलिङ्गतैव परं लिङ्गानां सा स्यादित्येतदर्थे पुनरभिधानम् ; किंवा पूर्व्वप्रतिज्ञया लिङ्गानां प्रागवच्छेद उक्तः, उत्तरेण इलेष्मज्वरलिङ्गानि भवन्तीत्यनेनान्त्यावच्छेद् उच्यते ; एवमन्यत्रापि वातज्वरादौ पूर्वरूपे च पुनरुक्तिः परिहर्त्तव्या ॥ १४ ॥
;
चक्रपाणिः - विषमाशनादिना द्वाद्विकसान्निपातिकज्वरानाह । अनशनं यद्यपि न पित्तश्लेष्मकरम्, तथापि अग्निमान्द्यकरत्वात् त्रिदोषकरमपि भवति किंवा एषु विषमाशनादिषु यथायोग्यतया द्वन्द्वकारणत्वं त्रिदोषकारणत्वञ्चोन्नेयम्; तेन अनशनं वातपित्तकरं बोध्यम्; यत् तु पित्तहरत्वमुक्तमनशनस्य, तत् तु द्रवांशक्षयात्; वचनं हि - " कफपित्ते द्रवे धातू सहेते लङ्घनं
१५७
For Private and Personal Use Only