________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः शारीरस्थानम्।
१८८१ एको देवगन्धर्वाणामानन्दः। श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवगन्धर्वाणामानन्दाः स एकः पितृणां चिरलोकलोकानामानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतं पितृणां चिरलोकलोकानामानन्दाः स एक आयानजानां देवानामानन्दः। श्रोत्रियस्य चाकामहतस्य । ते ये शतमायानजानां देवानामानन्दाः स एकः कम्मदेवानामानन्दो ये कर्मणा देवानपयन्ति । श्रोत्रियस्य चाकामहतस्य। ते ये शतं कम्मदेवानामानन्दाः स एको देवानामानन्दः। श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवानामानन्दाः स एक इन्द्रस्यानन्दः। श्रोत्रियस्य चाकामहतस्य । ते ये शतमिन्द्रस्यानन्दाः स एको वृहस्पतेरानन्दः। श्रोत्रियस्य चाकामहतस्य । ते ये शतं वृहस्पतेरानन्दाः स एकः प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य। ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः। श्रोत्रियस्य चाकामहतस्य। स यश्चायं पुरुषे यश्च पवादौ यश्चासावादित्ये स एकः स य एवं वित् । तदप्येष श्लोको भवति । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनति। अत्र ब्रह्मण इति यः पुरुषश्चायं पुरुषे क्षेत्र वत्तेते यश्च पवादिदेवान्तेषु सर्वेषु वर्तन्ते य आदित्येऽस्मिन् सूर्ये वर्त्तते स एकः परः पुरुषो ब्रह्म शिव एव तस्येयमानन्दस्य मीमांसा। एतं ब्रह्मणः शिवस्यानन्दं विद्वान् कुतश्चन न बिभेतीति जीवन्मुक्तस्य युक्तस्यानन्दमीमांसा। नन्वेवमस्य तस्माल्लोकात् प्रेत्य किश्चित् समश्नुत इति प्रश्नस्योत्तरमेतदनन्तरमुक्तम् । अस्माल्लोकात् प्रेत्यैतमन्नमयमात्मानमुपसंक्रामत्येतं प्राणमयमात्मानमुपसंक्रामत्येतं मनोमयमात्मानमुपसंक्रामत्येतं विज्ञानमयमात्मानमुपसंक्रामत्यतमानन्दमयमात्मानमुपसंक्रामति इति। अस्माल्लोकात् प्रेत्येति प्रकर्षण गला न तु मृखा। तदेव तत्रैवोक्तं पुनः। स यश्चायं पुरुषे यश्च पवादो यश्चासावादित्ये स एकः स य एवंवित् । अस्माल्लोकात् प्रेत्य एतमन्नमयमात्मानमुपसंक्रम्यैतं प्राणमयमात्मानमुपसंक्रम्यैतं मनोमयमात्मानमुपसंक्रम्यैतं विज्ञानमयमात्मानमुपसंक्रम्यैतमानन्दमयमात्मानमुपसंक्रम्येमान् लोकान् काममप्यनुपसश्चरन्नेतत् सामगायनास्ते इति । इमाननमयादीन् लोकान् स्वेच्छया कामी सन् विचरति। इति। ननु मृखायं किं स्यादितो वा कथं गच्छतीत्यतस्तदाहच्छान्दोग्योपनिषदि । “तदय इत्थं विदुर्ये चेमेऽरण्ये श्रद्धातप इत्युपासीततेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद् यानुदउँति षण्मासांस्तान् । मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याचन्द्रमसं चन्द्रमसो
For Private and Personal Use Only