________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८२
चरक-संहिता। कतिधापुरुषीयं शारीरम् अतः परं ब्रह्मभूतो भूतात्मा नोपलभ्यते।
निःसृतः सर्वभावेभ्यश्चिह्न यस्य न विद्यते ॥ विदुरतं स तत्पुरुष एतान् ब्रह्म गमयत्येष देवयानः पन्थाः इति ।” प्रश्नोपनिषदि। “हृदि ह्येष आत्माऽत्रैतदेक शतं नाड़ीनाम् । तासां शतं शतमेकैकस्यां द्वासप्ततिसप्ततिः प्रतिशाखानाड़ीसहस्राणि भवन्ति। आसु व्यानश्चरति । अथैकयोद्धं उदानः। पुण्येन पुष्यं लोकं जयति पापेन पापमुभयाभ्यामेव मनुष्यलोकमिति ।” अथ स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति। तस्य हैतस्य हृदयस्याग्रं प्रद्योतते, तेन प्रद्यातेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्टो वाऽहन्येभ्यो वा शरीरदेशेभ्य इति योगिनो विद्यया पुण्यं बान्धवान् गच्छति पापे शत्रून् गच्छति विहीनपुण्यपापाः हृदया ज्वलितमर्चिषमभिलक्ष्य सम्भवन्ति ते चक्षुरादितोऽहनि निष्क्रम्य दिनमभिसम्भवन्ति दिनात् शुक्लपक्षं शुक्लपक्षादुत्तरायणमुत्तरायणात् संवत्सरं संवत्सरादादित्यमिति अग्निलोकमादित्याचन्द्रमसमिति वायुलोकं चन्द्रमसाद विदुातमिति वरुणलोकम्। तत्र गतान् खल्वेतान् तपःश्रद्धादियुक्तान क्षेत्रज्ञान् तत्पुरुषः सदाशिवो ब्रह्म गमयति। नैते पुनरावर्त्तन्ते । गीतायाश्च । अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो विदुरिति । अग्निज्योतिर्ह दयाग्रज्वलनज्योतिरभिप्रयान्ति । तस्मादहरह्नः शुक्ल पक्ष शुक्लपक्षादुत्तरायणमित्यादिक्रमेण तत्र देवयाने पथि प्रयाता ब्रह्मविदो ब्रह्म गच्छन्तीति विदुः। भ्रान्ता आहुर्दिवादिषु मरणे फल मिदम् । तन्न श्रतिविरोधात् । इति देवयानः पन्था उक्तः। दौसिसोपनिषदि च पाशुपतयोगे। चतुविशगृहे योग एष वै पञ्चविंशकः। षड़ विंशश्च तथा मेयो ह्यध्यक्षः सप्तविंशकः। अष्टाविंशश्च पुरुषस्त्रिंशः पुरुषलोकधृक् । यं विदिखा न शोचन्ति शिवं तं कथयामि ते। उनत्रिंशं तदा विद्याज् शानतत्त्वार्थचिन्तकः । त्रिंशकन्तु तदा शाखा अमृतखाय कल्पते। इति पाशुपतयोग इति । इति द्वाविंशप्रश्नस्योत्तरम् ॥५०॥
गङ्गाधरः अत्र पुनरग्निवेशः पप्रच्छ। सव्व वित् सव्वसंन्यासी सर्वसंयोगनिःसृतः। एकः प्रशान्तो भूतात्मा कैर्लिङ्गैरुपलभ्यते इति। तत्रोत्तरमाह-अतः परमित्यादि। सोऽयं बद्धो भूतात्मा यः पुनःपुनरिह जायते स सत्यबुद्धेरुत्पत्तौ सर्ववित् सन् सर्व संन्यस्य ब्रह्मभूतः सन् नोपलभ्यते ।
For Private and Personal Use Only