________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८०
चरक-संहिता। [कतिधापुरुषीय शारीरम् सदसञ्च। तमात्मानं स्वयं सुष्टु अयः शुभावह विधियस्मात् तं शिवमकुरुत । तस्मात् स्वयखात् तदात्मानं शिवं सुकृतमुच्यते । य? यदेव तत् सुकृतं परमात्माख्य ब्रह्म रसो वै सः । स रस एव। प्रथमादिसामृताश्रयखात्। तं रसमानन्दस्थे क्षेत्र स्थितं तदविष्णोः परमं परं ज्योतिःस्वरूपं शिवं प्रथमामृतवन्तमयं योगमास्थितः पुरुषो विद्वान् योगे लब्धानन्दीभवति । अमृतरसो हि सुखकरस्तल्लाभे सुखवान् भवति । ___ अत्र स्वयमाशङ्कते। को हेप्रवेत्यादि । तदरसरूपानन्दमयलाभे क एवान्यात् प्रीतः स्यात् क एव प्राण्यात् प्राणकर्मा स्याद् यत एष आकाश आकाशभूतवदाकाश एव निर्लिप्त इति आनन्दोऽस्य न स्यादिति प्रश्नः। उत्तरयति । एप होवानन्दयति। यत एष आनन्दमयस्थक्षेत्रशस्थितः शिवः समाधियोगस्थितं पुरुषं जीवोपाधिमहत्तत्त्वोपाहितं प्राज्ञ क्षेत्रमानन्दयति महत्तत्त्वाख्यया 'विद्यया तमानन्दं भुञ्जानो जीवोपाधिः समाधिस्थः क्षेत्रज्ञ आनन्दीभवति न कैवल्यमेति। नन्वेष एकान्तत एव किमानन्दीभवति अनेकान्ततो वेत्यत आह-यदा होवेत्यादि। हि यस्मादेष जीवोपाधिः क्षेत्रज्ञः पुरुष एतस्मिञ्छरीरे अदृश्ये चानाश्ये निरुक्त खल्वानन्दमये निलयने भयशून्यं यथा स्यात् तथा प्रतिष्ठामालम्ब्य स्थितिं लभतेऽथ तदनन्तरकालं सोऽभयं गतो भवति। यदा हि यस्मादेष जीवोपाधिः। क्षेत्रज्ञो विद्वान् । एतस्मिञ्छरीरे तद इति। उ भो दरमीपदन्तरं त्रिगुणेनेषावहितं तत् परमात्मानं कुरुतेऽथानन्दमयसा दरव्यवधानाद्विदुषोऽपि तसा भयं भवति । एतदर्भयमभयभयं विदुषो मन्वानसा भवति ।
ननु कुत आनन्दमये निलये प्रतिष्ठां गतसत्राभयं भवतीत्यत आह—तदप्येष इत्यादि। अस्मात् सर्वभयङ्करादरुद्रादेव भीपा भयेन वातः पवते सततं गच्छन् सशोषयति । यस्माद् भीषा सूर्य उदेति । यस्माद् भीषा चन्द्रोऽग्निश्च उदेति । पञ्चमो मृत्युलोकानामन्तकाले नयनाथ धावतीति । तस्मात् सर्वशासनात् शिवादभयं प्रतिष्ठां गतस्य कुतोभयं भवति तस्माद व्यवधाने कथं नान्यस्मादभयं स्यादित्यर्थः। नन्वेतदानन्दस्य को विचार इत्यत एतत्श्लोकानन्तरं तत्रैव तैत्तिरीयोपनिषदि। सैपानन्दस्य मीमांसा भवति । युवाध्यात्मसु युवाध्यापक आशिष्ठो द्रदिष्ठो बलिष्ठः। तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुषानन्दः। ते ये शतं मानुषानन्दाः। स एको मनुष्यगन्धर्वाणाम् आनन्दः श्रोत्रियस्य चाकामहतस्य । ते ये शतं मनुष्यगन्धर्वाणामानन्दाः स
For Private and Personal Use Only