________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
शारीरस्थानम् ।
१८७९ ननु तर्हि कोऽत्यन्तपुरुषार्थ इत्यत आह--उत्कपादपि मोक्षसा सर्वोत्कर्षश्रुतेः । ५ । उत्कर्षादत्यन्तवादपि मोक्षसप्रात्यन्तपुरुषार्थत्वम्। कस्मात् ? सव्वोत्कर्षश्रुतेः । श्वेताश्वतरोपनिषदि मन्त्रः। न तस्य कार्य करणश्च विद्यते न तत् समश्चाप्यधिकश्च दृश्यते इति समातिशयाभावः श्रूयते । इत्यादि ।। ___ ननत्कर्षान्मोक्षसा चेदत्यन्तपुरुषार्थत्वं तहि त्रिविधदुःखात्यन्त नित्तिः किं दःखाविद्धसुखमत्यन्तपुरुषार्थ इति चेन्न । अविशेषश्चोभयोः। ६ । त्रिविधदुःखदुःखाविद्धसुखयोरुभयोश्च न विशेषोऽस्ति। सुखस्य नश्वरखे न काले स्वर्गादिसुखनाशे पुनदुःखप्राप्तः सुखस्यापि दुःखमध्ये प्रक्षेपात् । सम्प्रसादसा क्षेत्रज्ञसा परव्योमशिवरूपेण निप्पत्तौ स्वस्वरूपाभावात् तद्गतनित्यसुखसमाप्यभावात् कुत्रस्थनित्यसुखमभिव्यज्यतेति। तस्मान्नानन्दाभिव्यक्तिर्मुक्तिरिति तत्त्वम्।
नन्वेवमशेषतो वेदनानिटत्तौ सत्यां स योगी कीदृशः सन् जीवन् विचरतीति चेत् तदोच्यते। तैत्तिरीयोपनिषदि हुक्तम्। आनन्दमयकोषानन्तरमनुप्रश्नः। उताविद्वानमुं लोकं प्रेत्य कञ्चन गच्छति ? आहो विद्वानमुं लोकं प्रेत्य किश्चित् समश्नुते ? इति प्रश्नः। विद्वान् ब्रह्मशः । अस्योत्तरमुक्तं तत्रैव । असद वा इदमग्र आसीत् नतो वै सदजायत। तदात्मानं स्वयमकुरुत तस्मात् तत् सुकृतमुच्यते। इति। यह तत सुकृतं रसो वै स रसं हेरवायं लब्धानन्दीभवति । को हावान्यात् कः प्राण्याद् यदेष आकाश आनन्दो न स्यात् । एष हेवानन्दयति। यदा होवैष एतस्मिन्नदृश्येऽनाश्ये निरुक्त निलयनेऽभयं प्रतिष्ठां विन्दतेऽथ सोऽभयं गतो भवति। यदा होवैष एतस्मिंस्तदु दरमन्तरं कुरुऽथ तत् सभयं भवति । तदुभयं विदुषो मन्वानस्य । तदप्येप श्लोको भवति । भीपा वातः पवते भीषोदेति मूयः। भीषाऽस्मादग्निश्चन्द्रश्च मृत्युर्धावति पञ्चम इति। व्याख्यायते चेयं श्रुतिः। क्रियागुणव्यपदेशरहितमसदेवेदं सव्वमग्र आसीत् । तत् स्वगुणनिगूढ़ा शक्तिब्रह्म प्राक् सृष्टेः क्रियागुणव्यपदेशरहितासीत्। सर्ग प्रथमतस्तेजोऽमृजत। तत् तेजोऽपोऽसृजत् ता आपोऽन्नमसृजन्त। तास्तिस्रो देवतास्तेजोऽबन्नाख्या अनुपविश्य परा सा शक्तिब्रह्म सा खल्वजा तेजोऽवन्नानि भूखा तान्यनुप्रविश्य लोहितशुक्लकृष्णवदाभासमाना वागदेवी सरस्वती दुर्गा नाम गायत्री अतीन्द्रियध्वनिरूपा बभूवेति सा सदजायत। सैवार्द्धाशन घनीभूय परमव्योमरूपस्तदतीन्द्रियध्वनिमान् शिवो बभूव सोऽजः। एष परमात्मा पुरुषो नासन्न सत् । असच्च
For Private and Personal Use Only