________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८७८
चरक-संहिता। कतिधापुरुषीयं शारीरम् पुरुषाणां भवताति। अथाधिक्रियतेऽत्यन्तपुरुषार्थः। पुरुषस्य राशिसंज्ञकस्य स्थूलदेहिनः संसारदुःखसिन्धुमनस्यात्यन्तोऽर्थः प्रयोजनं मुख्यफलं त्रिविधदुःखात्यन्तनिवृत्तिः। त्रिविधं दुःखमाधिभौतिकमाध्यात्मिकमाधि दैविकञ्च। पूर्व व्याख्यातम् । तस्यात्यन्ता या निवृत्तिरप्रवृत्तिः साऽत्यन्तपुरुषार्थः। अन्तं नाशमतिक्रान्ता या सात्यन्ता, अत्यन्ता चासो निवृत्तिश्चेति अत्यन्तनिवृत्तिः, त्रिविधदुःखस्यात्यन्तनिवृत्तिरपुनर्भवप्रवृत्तिः। अत्यन्तोऽन्तम् अतिक्रान्तः पुरुषार्थ इत्यत्यन्त पुरुषार्थो मोक्ष इत्यधेः । अत्यन्तनिवृत्तिरिति अन्तपदव्यावृत्तिमाह, न दृष्टात् तद् सिद्धिनिवृत्तेरप्यनुत्तिदर्शनात् । २। दृष्टात् दुःखनाशकाद् धनपुत्रकलत्रादिकादर्थात् सुखप्राप्तौ सत्यां त्रिविधदुःख निवृत्ती जातायां तत्सिद्धिस्तस्यास्त्रिविधदुःखात्यन्तनिवृत्तेः सिद्धिर्न भवति । कस्मात् ? निवृत्तेरपि त्रिविधस्य दुःखस्य पुनरनुत्तिदर्शनात्। धनपुत्रकलत्रादिवदश्वमेधादिकमपि वैधं कम्मे दृष्टमेव तजनितस्वर्गादिकमदृष्टमपि च्युतं न खत्यन्तं ततः पुनरिह संसरणात् त्रिविधदुःखानुत्तिर्भवतीति । अत्यन्तपदव्यात्तिः स्वयं कृता। अत्यन्तपुरुषार्थ इत्यत्यन्तपदव्यात्तिं दर्शयति- प्रात्यहिकक्षुत्प्रतीकारवत् तत्प्रतिकारचेष्टनात् पुरुषार्थखम् । ३ । प्रत्यहोत्पन्नाधायाः प्रतीकारार्थ निवृत्त्यर्थं चेष्टा भोजनादिवत् । आधिभौतिकादित्रिविधस्य दुःखस्य पारलौकिकस्य चैहिकस्य च प्रतीकारार्थं निवृत्त्यर्थ नित्यनैमित्तिककाम्याश्वमेवादिकम्मे हिताहाराचारसत्तादिचेष्टनात् तत्तत्त्रिविधदुःख निवृत्तेः पुरुषार्थत्वं न खत्यन्तपुरुषार्थवम् । तत्तत्कर्मफलस्वर्गादिसुखस्य नश्वरत्वेन नाशे सति तत्रिविधदुःखस्य पुनरनुत्तः ।।
ननु दृश्यते कस्यचिद्रसायनसेवनाच्छारीरत्रिविधदुःखानामत्यन्तनिवृत्तिः केपाश्चिद्धितसेविनां त्रिविधान्यतरस्य दुःखस्यात्यन्तनिवृत्तिः सा किमत्यन्तपुरुपाथ इत्यत आह । सव्योसम्भवात् सम्भवेऽपि सत्त्वासम्भवाद्धयः प्रमाणकुशलैः । ४ । रसायनसेवनात् कर्भान्तराद्वा सर्वेषां मनःशरीराधिष्ठानानां त्रिविधानां दुःखानामत्यन्तनिवृत्तेरसम्भवात प्रमाणकुशलः प्रज्ञानदक्षैस्त्रिविधान्यतमदुःखस्य शारीरमानसान्यतरत्रिविधस्य चात्यन्तनित्तिरूपोऽत्यन्तपुरुषाथों हेयस्त्याज्यः शेषदुःखसद्भावात्। सम्भवेऽपि सोमरसायनादिसेवनादत्युत्कटतपोभ्यो वा बहुब्रह्मायुष्कालपर्यन्तं कस्यचिच्छारीरमानस त्रिविधदुःखानां निवृत्तेः सम्भवेऽपि पुनरपायित्वेन तेषां निवृत्तः सत्त्वासम्भवाच्चिरं वत्तेनसम्भवाभावात् सोऽपि पुरुषार्थों हेयः प्रमाणकुशलैरिति । त्रिविधेति पदव्यात्तिः। अत्यन्तेत्यस्य च व्यावृत्तिः ।।।
For Private and Personal Use Only