SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः ] शारीरस्थानम् । १८७७ दुःश्वोभयस्य नित्तिश्च स्यात् तदा तैत्तिरीयोपनिषदुक्तम्-यतो वाचो निवर्तन्ते अपाप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनेति मन्त्रेण ब्रह्मण आनन्द उक्तः, स खल्वानन्दो नित्यस्तन्नित्यानन्दवान् पुरुष उत्तमः पुरुष ईश्वरः । पातञ्जले हीश्वर उक्तः। क्लेशकम्मे विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः। अस्य व्यासकृतभाष्यम् । अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वरो नामेति ? क्लेशकम्पेविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर इति । अविद्यादयः क्लेशाः, कुशलाकुशलानि कम्माणि, तत्फलं विपाकः, तदनुगुणवासना आशयः। ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते । स हि तत्फलस्य भोक्ता इति । यथा जयः पराजयो वा योद्धषु वर्तमानः स्वामिनि व्यपदिश्यते। यो ह्यनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः। कैवल्यं प्राप्ताः सन्ति च बहवः केवलिनः। ते हि त्रीणि च्छिखा बन्धनानि कैवल्यं प्राप्ताः। ईश्वरस्य च तत्सम्बन्धो न भूतो न भावी, यथा मुक्तस्य पूवेबन्धकोटिः प्रज्ञायते नैवमीश्वरस्य। यथा प्रकृतिलीनस्योत्तरबन्धकोटिः सम्भाव्यते नैवमीश्वरस्य। स तु सदैव मुक्तः सदैवेश्वरः। योऽसौ प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्तो निनिमित्तो वेति । तस्य शास्त्रं निमित्तम्। शास्त्रं पुनः किंनिमित्तं प्रकृष्टसत्त्वनिमित्तम् । एतयोः शास्त्रोकपयोरीश्वरसत्त्वे वत्तमानयोरनादिः सम्बन्धः। एतस्मात् एतद्भवति। सदैवेश्वरः सदैव मुक्तः इति। तच तस्यैश्वय्य साम्यातिशयविनिर्मुक्तं न तावदैश्वर्यान्तरेण तदतिशय्यते। यदेवातिशयि यस्मात् तदेव तस्मात् काष्ठापाप्तिरैश्वय्यस्य स ईश्वरः। न च तत्समानमैश्वय्ये मस्ति । कस्मात् ? द्वयोस्तुल्ययोरेकस्मिन् युगपत्कायितेऽर्थे नवमिदमस्तु पुराणमिदमस्तु इति। एकस्य सिद्धावितरस्य प्राकाम्यविघातादूनत्वं प्रसक्तम् । द्वयोश्च तुल्ययोर्युगपत्कामिताप्राप्तिर्नास्ति। अर्थविरुद्धवात् । तस्माद यस्य साम्यातिशयविनिर्मुक्तमश्वयं स ईश्वरः स च पुरुषविशेषः। सर्वेभ्यः पुरुषेभ्य उत्तम इत्युत्तमपुरुपः। एतदुत्तमपुरुषरूपेणाभिनिष्पत्तौ सम्प्रसादस्य मोक्षे यदानन्दवत् स्वरूपता स आनन्दो नाभिव्यज्यते मोक्षे नित्यमेव ताद्रूप्येण वर्त्तत इति । नानन्दाभिव्यक्तिमुक्तौ इति । ननु तहिं सुखदुःखोभयनिवृत्तिश्चेदपवर्ग ततः कथं सङ्गच्छते तल्लक्षणं यत् पुनः कपिलेन सायसंहितायामुक्तं मोक्षलक्षणम् । अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः । १। अथशब्दोऽधिकारार्थों मङ्गलञ्चास्योच्चारणात् For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy