________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८७६
चरक-संहिता। कतिधापुरुषीयं शारीरम् संसारदुःखाभावे नितरां मुखवचनं क्रियत इत्यतः सत्यप्यागमे मोक्ष नित्यमुखस्य न विरोधः। तद् यथा-यद्यपीत्यादि। यद्यपि मुक्तस्यात्यन्तिकं सुखमित्यागमः कश्चिद् वत्तेते, तत्रापि न विरोधोऽस्ति । कथमित्यत आहमुखशब्द आत्यन्तिके दुःखाभावे प्रयुक्त इत्येवमुपपद्यते। दृष्टो हि दुःखाभावे मुखशब्दप्रयोगो बहुलं लोके इति। भाष्यन्त्येतत् स्पष्टम् । तत्रापि दुःखाभावः प्रतियोगितात् सुखमेवेति चेन्न दुःख भिन्नमन्यद वस्तु सुखमिवास्ति तदेव परमपुरुषरूपलं दुःखाभाव उच्यते।
अत्र पुनः मुखाभिव्यक्तिवादी भाषते । नित्य सुखरागस्यारहाणे मोक्षाभिगमाभावो रागस्य बन्धसमाज्ञानात् । यद्ययं मोक्षे नित्यं सुखमभिव्यज्यते इति नित्यमुखरागेण मोक्षाय घटमानो न मोक्षमधिगच्छेनाधिगन्तुमहे ति, बन्धसमाज्ञातो हि राग इति। भाष्यञ्चेदं व्याख्यायते। यदि मोक्षे सुखशब्दप्रयोगो दुःखाभावे भवति तदा नित्यसुखरागस्याप्रहाणे मोक्षाधिगमाभावापत्तिः। रागस्य बन्धसमानानात् । इदं स्वयं विकृणोति। मोक्षे नित्यं मुखमभिव्यज्यत इति नित्य सुखकामनया यद्ययं मोक्षाय घटमानो योगसमाधिषु प्रत्तो मोक्षे सुखं नाधिगच्छेत तदा मोक्षमधिगन्तुनाहेति । बन्धसमाज्ञातो हि रागस्तस्य वर्तते बन्धे समाज्ञातो नियुक्त इति। कथं मोक्षमधिगन्तुनाहतीत्यत आह-न च बन्धने सत्यपि कश्चिन्मुक्त इत्युपपद्यते। इति प्रहाणे नित्यसुखरागस्याप्रतिकूलखम्। इदश्च व्याख्यायते भाष्यम्। बन्धने बन्धकारणे रागादौ सति कश्चिदपि मुक्त इति नोपपद्यते। इति हेतोमोक्ष नित्यमुखाभिव्यक्ती सत्यां नित्यसुखरागस्य प्रहाणे सति न प्रतिकूलखं नित्यसुखरागस्य मोक्षे सम्भवति। एतदपि दूपयितुमाह-अथास्य नित्यसुखरागः प्रहीयते तस्मिन् प्रहीणे नास्य नित्यसुखरागः प्रतिकूलो भवतीति । मोक्षे दुःख जन्मात्यन्तविमुक्तौ खल्बनेकस्यास्य मुक्तस्य नित्यमुखरागः स्वयमेव तस्माद हीयते सुखे ह्यनुरज्यते दुःखार्त एव दुःखाभावे तु नानुरज्यते सुखायेति। तस्मिन् नित्यसुखरागे प्रहीणे सति नास्य मोक्षे नित्यमुखरागो भवति प्रतिकूल इति । वात्स्यायनभाष्यं समाप्तम् ।
इत्थञ्च सम्प्रसादस्य स्वेन रूपेणाभिनिष्पत्ती मोक्षे शिव एव भवति न पृथग् वर्तते। क्षेत्रज्ञस्यात्मा हि शिवः क्षेत्रज्ञोपाधिमोक्षात् स एव शिवो भवति, जलं यथा महाजलाशये पतितं तज्जलेनैकं भवतीति । इति निःशेषनिवृत्तिमोक्षस्तत्र मुखदुःखोभयनिवृत्ती मुक्तस्य ब्रहरू पसे यदि न नित्यसुखमभित्यज्यते सुख
For Private and Personal Use Only