________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
शारीरस्थानम्।
१८७५ निर्वाहाथम् अश्वरक्षणायेष्टं पुत्रं नियुज्य युद्धे कचित् स पुत्रो हन्यते परेणेति । नन्वेवं नास्तु भवत्येवम् । नानिष्टमिष्टेनाननुविद्धं सम्भवतीत्यनिष्टमपीष्टं सम्पयते । इष्टाय घटमानोऽनिष्टमपि जहातीति । इत्यत आह । अविवेकहानस्य अशक्यखादिति। विवेकस्य सदसद्विवेचनाया अभावहानस्य त्यागस्य अशक्यखात् । अविवेचनानुविद्धो हि विवेकः । विवेचना हि सर्वैः करिम्भे सम्यक् कत्तं न शक्यते नाविवेचनया किन्यारभ्यते, किन्तु विवेचनया कर्तव्येऽपि सम्पग्विवेचनाकरणासामादिष्टाय घटमानो बुद्धिमाननिष्टम् अपि जहाति । अपरश्चाह। दृष्टातिक्रमश्च देहादिष तुल्यः, यथादृष्टमनित्यं सुखं परित्यज्य नित्यं मुवं कामयते। एवं देहेन्द्रियबुद्धीरनित्या दृष्ट्वा अतिक्रम्य मुक्तस्य नित्यदेन्द्रियबुद्धयः कल्पितव्याः। साधीयश्चैवं मुक्तस्य चैकात्म्यं कल्पितं भवतीति । इदञ्च भाष्यं व्याख्यायते । सुखस्य देहादिषु दृष्टातिक्रमः तुल्यः कथम् इत्यतो देहादिषु दृष्टातिकमतुल्यतां दर्शयति-यथेत्यादि । अनित्यं सुखं दृष्टं परित्यज्यादृष्टं नित्यं सुख कामयते मुमुक्षुरिति सुखे दृष्टातिक्रमः। एवं देहेन्द्रियबुद्धयोऽप्यनित्या दृश्यन्ते दृष्टास्ता अतिक्रम्य मुक्तस्य नित्यदेहेन्द्रियबुद्धयो भविष्यन्त्यः कल्पितव्याः स्युनित्यसुखभोगार्थमिति। तेषां कल्पनामपेक्ष्य खेवमेव साधीयो भवति, यदस्माभिमुक्तस्य चैकात्म्यं परमपुरुषेण सहकात्मीभावः कल्पितो भवतीति सर्वसंयोगनिःसृतो मुक्तो भवतीति भावः।
अत्राशङ्का दृपयति । उत्पत्तिविरुद्ध मिति चेत् समानम्, देहादीनां नित्यवं प्रमाणविरुद्धं कल्पयितुमशक्यमिति समानं सुखस्यापि नित्यवं प्रमाणविरुद्धं कल्पयितुमशक्यमिति। व्याख्यायते चदं भाग्यम् । उत्पत्तिविरुद्ध मिति चेत् समानमिति सूत्ररूपं उत्पत्ति विरुद्धलं देहादनित्यवं तेन न दृष्टातिक्रमः मुखेन तुल्यः। तत्र दोषमाह। समानमित्यादि। तस्य विवरणमाह-देहादीनामित्यादि। देहेन्द्रियबुद्धीनामुत्पत्तिविरुद्धं नित्यखं प्रमाणविरुद्धं प्रत्यक्षादिविरुद्धं कल्पयितुं न शक्यमिति तेन समानं, सुखस्यापि उत्पत्तिविरुद्धं नित्यवं प्रमाणविरुद्धं प्रत्यक्षादिविरुद्धं कल्पयितुं न शक्यमिति। अथ तेषां प्रमाणाभावात् अनुपपत्तिने प्रत्यक्षं नानुमानं नागमो वा विद्यते इति यदुक्तं तत्प्रत्यक्षानुमानप्रमाणाभावं दर्शयिखागमाभावं दर्शयति--आत्यन्तिके च संसारदुःखाभावे मुखवचनादागमे सत्यविरोधः। यद्यपि च कश्चिदागमः स्यात् । मुक्तस्य आत्यन्तिकं मखमिति। इदश्च भाष्यं व्याख्यायते । मोक्षे जाते खात्यन्तिके
For Private and Personal Use Only